Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai
View full book text
________________
(२०२)
शाब्देतिहासभिषगागमनक्रचक्रं,.
ज्योतिष्कमन्त्रसमतन्त्रतरङ्गलोलम् । विज्ञाननीतिनयतर्कमयं विना त्वां, __को वा तरीतमलमम्बनिधिं भजाभ्याम् ? ॥ ४ ॥ अज्ञानतापहरणाय गुरो! प्रजानां,
पञ्चाम्बुनीवृति विभो विहृतं त्वया यत् । नो चित्रमत्र जनको भयदेऽपि देशे, ___ नाभ्येति किं निजशिशोः परिपालनार्थम्? ॥५॥ धर्माङ्कुरः प्रकटितो भविचित्तभूमौ,
तत्रोपदेशजलदः किल नाथ ! हेतुः । माधुर्यमुद्भवति यत्कलकण्ठकण्ठे, __ तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ अद्यापि यत् समवलोकनमार्गमेति,
जैनव्रतोपचितिरोधिजनः क्वचिद्यः । चित्रं न तत्र, यदि कोऽपि ददर्श दर्या,
सूर्याशुभिन्नमिव शावरमंधकारम् ॥ ७ ॥ वाणी निपीय जनवल्लभ ! वल्लभां ते,
वैराग्यमागतवती सुजनस्य बुद्धिः । पात्रस्य गौरवमिदं विसिनीदलेषु,
मुक्ताफलद्युतिमुपैति नन्दबिन्दुः ॥ ८ ॥ दृष्ट्वा मुखं तव विभो प्रशमं प्रसन्नं,
लोकेऽत्र लोकनिवहाः प्रमदं भजन्ते । प्रद्योतनं समुदितं खलु वीक्ष्य किं नो, ... पद्माकरेषु जलजानि विकाशभाञ्जि ? ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/508b8170878b8829c9eb2af38521935111d34a6defe89e7ee905a43190e56f67.jpg)
Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828