Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai
View full book text
________________
(२०३) दक्षिार्थमागतवतोऽसुमतोऽनुगृह्य, ____दत्सेऽपवर्गपदवी पदवीं स्वकीयाम् । तस्यैव जन्म सफलं जगति स्वकीय
भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ ये सत्यशोधनपराः बहवोऽन्यधर्माः, .
पीत्वेह भङ्गरचनं वचनं त्वदीयम् । गृह्णन्ति नैव खलु ते कुमतं सुधाशी,
क्षारं जलं जलनिधरशितुं क इच्छेत् ? ॥ ११ ॥ वृद्धोऽपि बोधलवलेशयुतः समन्तात् , - पादं विमुंचति पथे नहि दुर्विदग्धः । संपूर्णबोधकलितस्य तवैव चित्रं, ___ यस्ते समानमपर न हि रुपमस्ति ॥ १२ ॥ शास्त्रार्थवादनिपुणोऽपि नु भीमसेनो, ___ भीमस्त्वया खलु जितः प्रसभं स्वयुक्त्या । चन्द्रस्य बिम्बमिव तस्य मुखं तदाभूत् ,
यद्वासरे भवति पाण्डु पलाशकल्पम् ॥ १३ ॥ मा वंचिताःस्युरवबोधचयैः सुशीलाः,
संसारवालकचया इति सद्विचाराः । सन्त्यत्र नाथ ! भवतो भवतोदरूपाः,
कस्तान्निवारयति संचरतो यथेष्टम् ? ॥ १४ ॥ तेषां प्रचारवशतः किल वरिपूर्व
विद्यालयो विरचितो जिनधर्मशिक्षः । १ पदवी मार्गः २ ना पुरुष । ३ रूपंxस्वभावं जले जडेxअज्ञाने । ४स्वयुक्त्यायुक्तियुक्तं-विशेषनिर्णय-भीमज्ञानत्रिंशिकारूपं ग्रंथयुग्मंविरचय्येति परामर्शः ।
...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/567aacedab7d91981423c0a9775d57240b04254f005319d5e87dc5b49f31b11d.jpg)
Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828