________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [८८], नियुक्ति: [१९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
4
प्रत
.
सुनाक
૮૮ી
भोगी भवतीति, आह च-से ण किणे' इत्यादि, 'स'मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण कापयेत् कीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परित्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिक क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह-से भिक्खू कालन्ने' काल-कर्तव्यावसरस्तं जानातीति कालज्ञः-विदितवेद्यः, तथा 'बालपणे' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशत्यनुष्ठान विधायी, अनिगृहितवलवीर्य इत्यर्थः, तथा 'मायन्ने यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा |'खेयन्ने' खेदः-अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः-श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तं च-"जरा-13 मरणदीर्गत्यव्याधयस्तावदासताम् । मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥१॥" इत्यादि, अथवा 'क्षेत्रज्ञा संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदका, तथा 'खणयन्नो' क्षण एवं क्षणका-अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा 'विणयन्ने' विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयण्णे' स्वसमयपरसमयी जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथा-पोडशोद्गमदोषाः, ते चामी-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्तितं १. अभ्याहृतं ११ उद्धिनं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोसादनदोषाः, ते चामी-धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४
अनुक्रम
Các
[९०]
wwwandltimaryam
~267~#