Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 17
________________ प्रकाश टी.-अथ सुगतामत मपाकृत्य नैयायिकमतमपाकरोति, न संनि. चेत्प्राप्य. द्विधाप्य न तैज. अग्रगकाव्यगतं योगपदमध्याहत्यात्र व्याख्येयं, हे योग त्वया प्रमाणत्वेन काल्पतोऽपि संनिकर्षः प्रमाणं न भवेत् कुत इति हेतुमाह-प्रमाकृती प्रमाजनने तदिति तस्य संनिकर्षस्य व्यभिचारदर्शनात्, भावार्थ स्त्वयंप्रमासाधकतमं प्रमाणमिति प्रमाणलक्षणं त्वयाऽभ्युपगतं, यद्यस्मिन् सति भवत्येवाऽसति च न तत्तस्य साधकतमं क्वचित् सत्यपि संनिकर्षे प्रमाया अनुत्पादात्, क्वचिद् सत्यपि प्रमोत्पत्ते रित्यत्रान्वय व्यतिरेकाभ्यां व्यभिचारदर्शनात्, तथाहि गगनस्य विभुत्वेन सकलमूर्तद्रव्यसंयोगित्वं विभुत्व मिति वचनाद् गगनचक्षुषों घंटचक्षुषोरिव संनिकर्षण घटविषयकममाया अजननात्, न च तत्रयोग्यताया अभावान्न संनिकर्ष स्तत्प्रमा जनयतीति वाच्यं, योग्यतांगीकारे किमंतर्गडुना संनिकर्षेण, योग्यताहि प्रतिबंधकाऽभावः, स च स्वावरण|क्षयोपशमरूपं भावेंद्रियमेव, तथा चामत्कक्षापंजरप्रवेशः, विशेषणज्ञाना द्विशेष्यप्रमायां जायमानायां क्वचिद सत्यपि सनिकर्षे प्रमोत्पत्ते रिति स्थितमेतन्न संन्निकर्षः प्रमाणमिति, अथ ग्रामोनास्ति कुतः सीमेति न्यायात् घटाद्यर्थैः संनिकर्ष एव न संभवति, तस्य प्रमाणाप्रमाणत्वविचारस्तु दूरेऽस्त्विति दर्शयति, अप्रपाप्येति अप्राप्यकारि यदंबकं चक्षु स्तस्य घटादिनार्थेन संनिकर्षः कथं भवेन्न कथमपीत्यर्थः, यदि चक्षुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः संभवतीति भावार्थ इति वृत्तार्थः ॥ ६॥ टी. भा.-हवे बौद्धमतने छोडीने नैयायिकोना मतनुं खंडनकरेछे. आगलना काव्यमा रहेला योगपदनो अध्याहार करीने अहीं व्याख्या करवी हे योग ! ते प्रमाणपणे कल्पेलो एवो पण संनिकर्ष प्रमाणरूप न थाय

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50