Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
युक्तिप्रकाशः
तो तेना आश्रयभूतएवा द्रव्यने ग्रहण कयाविना ते केम ग्रहण कराय! माटे ते गुण पण एवो काव्यनो अर्थ छ ॥२२॥
द्रव्यं हि शब्दो गतियुक्तभावाद । व्याघातकत्वाच्च गुणान्वितत्वात् ॥
अर्थ क्रिया कारितया च किंचा-ऽनुद्भूत रूपादिगुणान्वितोऽसौ॥२३॥ मू. भा.--गतिवालापणुं होवाथी व्याघातकरनार होवाथी तथा गुणयक्त होवाथी अने अर्थ क्रियाने करवा|पणाथी ते शब्द खरेवर द्रव्य छे. वली ते शब्द नथी उत्पन्न थयेल रूपआदिगुणो जेना एवो छे. ॥ २३ ॥
टी.-अथ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं द्रव्यत्वं दर्शयति, द्रव्यं हि शब्दो द्रव्यं कुत इत्याह-गतियुक्त | भावाद्गतिमत्त्वादित्यर्थः, गतिर्हि द्रव्य एव दृष्टा न पुनगुणादिषु, द्रव्यत्वे हेतुमाह-व्याघात्कत्वात् यद्याघातका तव्यमेवं दृष्टं यथा कुख्यादि, गुणादीनां व्याघातकत्वाऽसंभवात् दृश्यते च तीवशब्दै मंदशब्दानां व्याघातकरणमिति, पुनद्रव्यत्वे हेत्वंतरमाह-गुणान्वितत्यात् , गुणाः संख्यादयस्तैरन्वितत्वात , एको द्वौ त्रयो वा शब्दा मया श्रुता इत्यवाधितप्रतीते जर्जायमानत्वात् , अथ पुनस्तस्य द्रव्यत्वे हेतुमाह-अर्थक्रियाकारितया, यदर्थक्रिययाकारि तद्व्यं यथा घट इति, ननु नीलरूपस्य गुणत्वे ऽपि नयनतेजो वृद्धिजनकत्वे नार्थक्रियाकारित्वायभिचार इति चे ननहि नीलं रूपं नयनतेजःप्रवर्द्धकं, किंतु तदाश्रयद्रव्यमेव, तथाहि-नीलरूपाश्रये द्रव्ये गृहीते तद्गृहीतुं शक्यते तयोश्च सर्वथा भेदाऽभावेन युगपद्ग्रहात्, नीलरूपविशिष्टं द्रव्यं गृहीतं सन्नयनतेजःप्रवर्द्धक मिति स्थितमेतत् ॥ ननु शदश्चेद् घटवत् द्रव्यं तर्हि तस्मिन्निव तत्र कथं रूपादिगुणा नोपलभ्यंत इत्याशंक्याह-किं चेति आकाशगुण

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50