________________
5
सप्तमस्याध्यायस्य प्रथममाह्निकम् ।
इदानीं रूपादीनाह -
20
उक्ता गुणाः । ७ । १ ।
रूपादिसूत्रेणोद्दिष्टा इत्यर्थः ।
गुणलक्षणं चोक्तम् । ७ । १ । २ ।
द्रव्याश्रयी [ १ । १ । १५ ] इत्यादिना द्रव्यकर्मभ्यां वैधर्म्यं कथितमित्यर्थः । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् । ७ । १ । ३ ।
तथ ह्युक्तं ' रूपरसगन्धस्पर्शवती पृथिवी ' [ २ । १ । १ ] इत्यादि ।
तत्र -
10 पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याः | ७ | १ । ४ । घटादेः पार्थिवस्य द्रव्यस्य विनाशात् तद्गतानामपि रूपादीनां विनाश आश्रयविनाशात्
अग्निसंयोगाच्च । ७ । १ । ५ ।
अग्निसंयोगाच्च पार्थिवेषु परमाणुषु रूपादीनां विनाशः, कार्ये समवेतानां स्वाश्रय15 विनाशादेव ।
परमाणुष्वग्निसंयोगादेव कुतः ?
गुणान्तरप्रादुर्भावात् । ७ । १ । ६ ।
यस्माच्छ्यामादिगुणेभ्यो व्यतिरिक्तं गुणान्तरमुत्पद्यते ततः पूर्वे परमाणुगुणा विनष्टाः, गुणवति गुणानारम्भात् ।
एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । १ । ७।
एतेन गुणान्तरप्रादुर्भावेन नित्येषु परमाणुषु रूपादीनामनित्यत्वमुक्तं पार्थिवेष्वेव ।
यतः -
अप्सु तेजसि वायौ चं नित्या द्रव्यनित्यत्वात् । ७ । १ । ८ । १ मुत्पाद्यते । २ च 0 मध्ये नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org