Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 281
________________ सप्तमं परिशिष्टम् । २११ बहिर्नाक्षं सिद्धमिति वाक्य शेषः, इन्द्रियमधिष्ठानदेश एव तिष्ठति तत्र चिकित्सादिप्रयोगात् , तस्मादिन्द्रियादेव व्यवच्छिन्नेऽर्थे ग्रहणम् । ___ सत्यपि च बहिःमचारे न शक्तिविषयेक्षणे, अन्यथा पिहिताधिष्ठानस्यापि विषयग्रहणं स्यात् । ततश्चक्षुःश्रोत्रयोरधिष्ठानान्तःस्थितयोरेवासनिकृष्टविषयेक्षणात् सौन्तरग्रहणमधिकग्रहणं च युज्यते । - पञ्चानामिन्द्रियत्वे न सुखादि प्रमेयं वा । 'वा' इति वचनं 'वा'. शब्दात् प्रमाणान्तरोपादानं स्यादिति । यदिदं लिङ्गाद्यभावे स्वकीय सुख दुःखेच्छाद्वेषप्रयत्नेषु ग्रहणं तदप्रमाणमिति सुखादीनां प्रमेयत्वं न स्यात् । तस्य वा प्रमाणत्वे प्रमाणान्तरमेवोपसङ्ख्यातव्यम् । मनो वाऽस्तीन्द्रियान्तरम् । अथवा मनस एवेन्द्रियत्वमभिधातव्यं 10 तत्सन्निकर्पोत्पन्नस्य प्रत्यक्षत्वमाधनार्थम् । अनिषेधादुपात्तं चेत् । अथापि परमताप्रतिषेधेन सिद्धौ मनस इन्द्रियत्वाप्रतिषेधादुपात्त मेव [ तद् ] इति चेत् , परमते मनस इन्द्रिय भावोऽधीतस्तथा सति अन्येन्द्रियरुनं वृथा। यदि परेण पठितस्य मनसोऽप्रतिषेधादिन्द्रियत्वं ततो घ्राणादीन्द्रियमुच्यते इति निर्देशो वृथा स्यात् , अप्रतिषेधादेव तस्य सिद्धत्वात् । . 15 जॉनस्य च प्रमाणत्वेऽर्थान्तरफलबादिनो निश्चितेऽर्थे फलाभावः । निश्चया. स्मकं हि ज्ञानं प्रमाणम् , तत्प्रमाणोत्पत्तावर्थस्याधिगतत्वात् फलाभावः स्यात् । १ व्यवच्छिन्नोऽर्थो गृह्यते (?) ॥ २ इन्द्रियस्य सत्यपि PSV ॥ ३ ' ततश्चक्षुःश्रोत्राभ्यामधिष्ठानान्तःस्थिताभ्यामेव ' इत्यपि पाठोऽत्र स्यात् ॥ ४ स्थितिरेव प्राप्नोति विषयेक्षणात् V॥ ५ सान्तरमधिकग्रहणं च PSV । ( सान्तराधिकग्रहणं ? ) ॥ ६ " तदिदमुक्तं दिङ्नागेन-न 20 सुखादिप्रमेयं वा मनो वास्तीन्द्रियान्तरम् ।' न च तत् सम्भवति घ्रागादिसूत्रेण विभागपरेग निषेधांदिति भावः।"-न्यायवार्तिकतात्पर्यटीका. १।१ । ४ ॥ ७ प्रमागसङ्घयान्तरोपादानम् K॥ ८ ग° ऽद° ल्तर् PSV । (यदेवं ? यद्येवं ? ) ॥ ९ सुखादयः प्रमेया एव न स्युः (१)॥ १० तत्र वा इति वचनेन प्रमाणान्तरमेव लक्षितं भवति V ॥ ११ 'प्रमाणान्तरत्वमुपसङ्ख्यातव्यम् ' इत्यपि पाठोऽत्र स्यात् ॥ १२ “ मनसश्चेन्द्रियभावान वाच्यं लक्षगान्तरमिति । 25 तन्त्रान्तरसमाचाराच्चैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्वमनुमतमिति हि तन्त्रयुक्तिः ।"-न्यायभाष्य. १।१ । ४ । " तन्त्रान्तरे मन इन्द्रियमिति पठ्यते । तच्चेह न प्रतिषिद्धम् । अप्रतिषेधादुपात्तं तदिति । न, शेषाभिधानवैयर्थ्यदोषात् ।”-न्यायवार्तिक. १ । १ । ४ । " सन्त्रान्तरेति । तन्त्र पते व्युत्पाद्यतेऽनेन तत्त्वमिति तन्त्रं शास्त्रम् ...तद् दूषित दिङ्नागेन-अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा।"-न्यायवार्तिकतात्पर्यटीका. १।१॥ ४ ॥ १३ ज्ञानस्यैव K॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360