Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 283
________________ सप्तमं परिशिष्टम् । विशालामलवती टीका । नैयायिकानामिति प्रसिद्धेरव्यवहिततन्मतोपक्षेपाच्च अक्षपादानामिति गम्यते । इन्द्रियार्थोद्भव इति, उद्भवत्यस्मादित्युद्भवः, तत्सन्निकर्षोपलक्षणार्थम् । । इन्द्रियार्थवचनं इन्द्रियार्थसन्निकर्षोत्पन्नमित्यादि इन्द्रियार्थावुद्भवोऽस्येतीन्द्रियार्थोद्भवम् । नास्ति व्यपदेश्यादिसम्भव इति । ... विशेषणमित्यादि । न चास्तीन्द्रियबुद्धा- 5 विति.....। अनुमानविषयत्वादित्यादि.... । अव्यपदेश्यत्वेऽपि न व्यभिचार इति । कुत इत्याह- इन्द्रिय बुद्धिरित्यादि । सर्वं ज्ञानमव्यपदेश्यस्वरूपमेवेति अव्यपदेश्यस्वे व्यभिचारो नास्त्येव ।.... व्यभिचारविषयत्वेऽपि न ' सम्भवोऽस्ति ' इत्यनुवर्तते । मनोभ्रान्तिविषयत्वादित्यादि....। व्यवसाय इत्यादि विशेषणासम्भवमाह । सोऽकल्पित इत्यादि । .... अथेत्यादि । अयथार्थज्ञानं विपरीतज्ञानम्, आदिशब्देन संशयज्ञानं ग्राह्यम् । अयथार्थादिज्ञानव्यावृत्तये व्यवसायात्मकमित्युच्यते । ... अव्यभिचाराद- 10 पीति । अपिशब्दादिन्द्रियबुद्धावयथार्थत्वसम्भवादपि । कुतोऽसम्भव इति चेत्, सर्वा हीत्यादि । मात्रशब्दोऽयथार्थग्रहण निराकरणार्थः । .... एतेनेत्यादि । प्रत्याख्यातः परिहृतः । व्यवसायफलमिति व्यवसायः फलमस्येति विग्रहः । कथं प्रत्याख्यात इत्याहसच्चे नेत्यादि । .... अथापीत्यादि.... । तन्नेत्यादिना एतदाह । अस्य चेत्यादि... | ज्ञानस्वरूपस्य प्रदर्श्यत्वे चेत्यादि । ..... सर्वत्रापीत्यादि लक्षणस्याव्यापकत्वमाह.. सान्तरग्रहणमित्यादि... | अधिकग्रहणम्... नेत्यादि । ... रूपवचनमत्रेन्द्रिय विषयोपलक्षणार्थम् । बहिर्वर्तित्वादित्यादिना .... । तत्र चिकित्सादिप्रयोगादित्युपपत्तिः । तस्मादिन्द्रियादेवेति निपातो भिन्नक्रमो 'व्यवच्छिन्न एव ' इत्येवं द्रष्टव्यः । कुतः ? यस्माद् अधिष्ठानादपि व्यवच्छिन्नोऽर्थ इति गृह्यते न केवलादिन्द्रियात्..... सत्यपी. त्यादि । अन्यथेत्यादिना ......! पञ्चानामिन्द्रियत्वे इति .... । न सुखादि प्रमेयं 20 वेति... । यदित्यादि । स्ववचनं परकीयेषु .... । तस्य चेति.... । अनिषेधादिति... | केषुचिदस्तीति साङ्ख्यादिषु । अन्येन्द्रियरुतं वृथेति प्राणादीनामिन्द्रियत्वस्य तत एव सिद्धेस्तद्वचनं निरर्थकं स्यात्, ततः पूर्वमपि वचनादन्येषामिन्द्रियत्वं गम्यते । नाभिमतमिति । केचिद् ' घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्य: ' [ न्यायसू० १ | १ । १२ ] इत्यत्रानेकेषामिन्द्रियत्वं न साध्यते, किं तर्हि ? इन्द्रियत्वेन प्रसिद्धानामेव 25 भौतिकत्वम्, अभौतिकं च मनः तदनुदिश्यत इत्याहुः । एतदपि न, इन्द्रिय सङ्ख्या स्वरूपान्तर निराकरणाय ' घ्राणादीनि भूतेभ्यः' इत्येतावतापि भौतिकत्वस्य सिद्धेरिन्द्रियवचनं निरर्थकं स्यात् । ज्ञानस्य चेत्यादि । इन्द्रिय-सन्निकर्षयोः प्रमाणत्वे फलाभावो न स्यात् ज्ञानस्य फलत्वात्... इत्याशयः । निश्वयात्मकं हीत्यादि । ... विशेषणज्ञान ... 15 Jain Education International ... For Private & Personal Use Only २१३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360