________________
सप्तमं परिशिष्टम् ।
विशालामलवती टीका ।
नैयायिकानामिति प्रसिद्धेरव्यवहिततन्मतोपक्षेपाच्च अक्षपादानामिति गम्यते । इन्द्रियार्थोद्भव इति, उद्भवत्यस्मादित्युद्भवः, तत्सन्निकर्षोपलक्षणार्थम् ।
।
इन्द्रियार्थवचनं
इन्द्रियार्थसन्निकर्षोत्पन्नमित्यादि इन्द्रियार्थावुद्भवोऽस्येतीन्द्रियार्थोद्भवम् । नास्ति व्यपदेश्यादिसम्भव इति । ... विशेषणमित्यादि । न चास्तीन्द्रियबुद्धा- 5 विति.....। अनुमानविषयत्वादित्यादि.... । अव्यपदेश्यत्वेऽपि न व्यभिचार इति । कुत इत्याह- इन्द्रिय बुद्धिरित्यादि । सर्वं ज्ञानमव्यपदेश्यस्वरूपमेवेति अव्यपदेश्यस्वे व्यभिचारो नास्त्येव ।.... व्यभिचारविषयत्वेऽपि न ' सम्भवोऽस्ति ' इत्यनुवर्तते । मनोभ्रान्तिविषयत्वादित्यादि....। व्यवसाय इत्यादि विशेषणासम्भवमाह । सोऽकल्पित इत्यादि । .... अथेत्यादि । अयथार्थज्ञानं विपरीतज्ञानम्, आदिशब्देन संशयज्ञानं ग्राह्यम् । अयथार्थादिज्ञानव्यावृत्तये व्यवसायात्मकमित्युच्यते । ... अव्यभिचाराद- 10 पीति । अपिशब्दादिन्द्रियबुद्धावयथार्थत्वसम्भवादपि । कुतोऽसम्भव इति चेत्, सर्वा हीत्यादि । मात्रशब्दोऽयथार्थग्रहण निराकरणार्थः । .... एतेनेत्यादि । प्रत्याख्यातः परिहृतः । व्यवसायफलमिति व्यवसायः फलमस्येति विग्रहः । कथं प्रत्याख्यात इत्याहसच्चे नेत्यादि । .... अथापीत्यादि.... । तन्नेत्यादिना एतदाह । अस्य चेत्यादि... | ज्ञानस्वरूपस्य प्रदर्श्यत्वे चेत्यादि । ..... सर्वत्रापीत्यादि लक्षणस्याव्यापकत्वमाह.. सान्तरग्रहणमित्यादि... | अधिकग्रहणम्... नेत्यादि । ... रूपवचनमत्रेन्द्रिय विषयोपलक्षणार्थम् । बहिर्वर्तित्वादित्यादिना .... । तत्र चिकित्सादिप्रयोगादित्युपपत्तिः । तस्मादिन्द्रियादेवेति निपातो भिन्नक्रमो 'व्यवच्छिन्न एव ' इत्येवं द्रष्टव्यः । कुतः ? यस्माद् अधिष्ठानादपि व्यवच्छिन्नोऽर्थ इति गृह्यते न केवलादिन्द्रियात्..... सत्यपी. त्यादि । अन्यथेत्यादिना ......! पञ्चानामिन्द्रियत्वे इति .... । न सुखादि प्रमेयं 20 वेति... । यदित्यादि । स्ववचनं परकीयेषु .... । तस्य चेति.... । अनिषेधादिति... | केषुचिदस्तीति साङ्ख्यादिषु । अन्येन्द्रियरुतं वृथेति प्राणादीनामिन्द्रियत्वस्य तत एव सिद्धेस्तद्वचनं निरर्थकं स्यात्, ततः पूर्वमपि वचनादन्येषामिन्द्रियत्वं गम्यते । नाभिमतमिति । केचिद् ' घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्य: ' [ न्यायसू० १ | १ । १२ ] इत्यत्रानेकेषामिन्द्रियत्वं न साध्यते, किं तर्हि ? इन्द्रियत्वेन प्रसिद्धानामेव 25 भौतिकत्वम्, अभौतिकं च मनः तदनुदिश्यत इत्याहुः । एतदपि न, इन्द्रिय सङ्ख्या स्वरूपान्तर निराकरणाय ' घ्राणादीनि भूतेभ्यः' इत्येतावतापि भौतिकत्वस्य सिद्धेरिन्द्रियवचनं निरर्थकं स्यात् । ज्ञानस्य चेत्यादि । इन्द्रिय-सन्निकर्षयोः प्रमाणत्वे फलाभावो न स्यात् ज्ञानस्य फलत्वात्... इत्याशयः । निश्वयात्मकं हीत्यादि । ... विशेषणज्ञान
... 15
Jain Education International
...
For Private & Personal Use Only
२१३
www.jainelibrary.org