SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सवृत्ति के सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्ष परीक्षा । 1 [ नैनु PSV ] विशेषणज्ञानं प्रमाणम् । यत् सामान्यादिविशेषणज्ञानं तत् प्रमाणं यद् द्रव्यादिविशेष्यज्ञानं तत् फलमिति चेत्, तद् विशेषणे न भेदतः । भिन्नं विशेषणं विशेष्यं भिन्नम्, *अन्यविपयस्य प्रमाणस्यान्यत्र फलं च न युक्तम्*, विषयान्तरे प्रमाणभावोऽन्यत्र च फलभादो न युज्यते, न हि धवादि5 विषयमा छिदिक्रियया पलाशे छिदिर्दृष्टा । [ अथ PSV ] विशेष्यज्ञानकारणत्वात् तद्विषयत्वमप्यस्तीति चेत् न, अतिप्रसङ्गात् । तथा सति सर्वकारकसंकरः स्यात्, विशेष्यज्ञानकारणत्वेन तत्करणत्वात् । तस्माद् यस्य कर्मणि व्यापार उच्यते तस्यैव तत् फलं युज्यते । " २१२ किञ्च, तत्रापि न, तत्र विशेषणेऽधिगन्तव्ये फलं नास्ति प्रमाणं वा 10 नास्ति । उभयं तत् किम् ? अथापि तदेव विशेषणज्ञानं प्रमाणं प्रमेयं चोभयमपि भवति, यथा स्वात्मसंवित्तिमात्रं प्रमेयमपि भवति ग्राहकमपि भवतीति चेत न, विशेषयेऽपि सज्यते । तथा सति विशेष्यज्ञानमपि प्रमाणं प्रमेयं चोभयं प्राप्नोति । यद्यर्थान्तरत्वेऽपि ज्ञानज्ञेययोः प्रमाणं प्रमेयं भवति, स्वसंवित्तौ ज्ञानस्यात्मवत् तस्यैव वस्तुन उभयथा भावाद् विशेषणज्ञानमात्मना तुल्यमिति 15 उभयं न युज्यते । एवं तर्हि ज्ञेयाधिगतौ या अज्ञान संशय-विपर्ययज्ञाननिवृत्तिः सा फलं भविष्यति, तदप्ययुक्तम्, अज्ञानादि न सर्वत्र । सर्वत्र तावदज्ञानादेर्भाव नियमो नास्ति, कचिदाभोगमात्रेण ज्ञानोत्पत्तेः । अज्ञानादेः सद्भावेऽपि निवृत्तिर्नासती फलम् । निवृत्तिरित्यज्ञानाद्यभावे 20 क्रियते, सासती न फलम् सा प्रमितिर्भवितुं नार्हति । एवं तावन्नैयायिकानां प्रत्यक्षमयुक्तम् | PSV C. ed. D. ed. पृ० १७ - १९a, N. ed. पृ० १७a13a PSV N. ed. g. 9o.b-902b 11 , 25 १ गल्° ते" PSV ॥ २ ' भेदतो न विशेषणे ' इत्यपि पाठचिन्त्यः || ३ विशेष्याद् भिन्नम् K ॥ ४* * एतदन्तर्गत: पाठो विद्यालामलायामेव प्रतीकलपेग घृतो विलोक्यते ।। ५ सर्वं कारकमेकं स्यात् V ॥ ६ तस्माद् यस्मिन् कर्मगो व्यापार उच्यते तत्रैव तत्फलत्वं युज्यते PSV | ७ तत्र नास्ति PSV || ८ द्वयं ( ? ) । ९ चेत् V ॥ १० प्रमाणप्रमेयत्वं भवति PSV ११ स्वात्नसंवित्तिज्ञानवदिति तदेव वस्तूभयमपि भवति । विशेषगज्ञानमात्मना तुल्यमित्युभयं न युज्यते V । १२ तुल्यमिति (१) ॥ १३ ज्ञानेभ्यो निवृत्ति: PSV || १४ तावदज्ञानादौ भावविषय नियमो नास्ति K ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy