________________
या
40.0
२१४ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्ष परीक्षा । मित्यादिना... प्रमाणात् फलं भिन्नं दर्शयति । विशेषणे न भेदत इत्यादेरयमर्थःयतोऽन्यविषया क्रिया तस्यास्तत्र फलं न भवति... अन्यविषयस्य प्रमाणस्येति हेतु:, •. अन्यत्र फलं च न युक्तमिति प्रमाणस्य फलम् । विषयान्तरे इत्यादि दृष्टान्तः । विशेष्यज्ञानकारणत्वादित्यसिद्धत्वमाह ।... न, अतिप्रसङ्गादिति । यः प्रमाता यद् 5. गवादि कर्म... एतत् सर्वमपि विशेष्यज्ञानकारणत्वाद् विशेषणज्ञानवत् करणं प्रसज्यत इत्यर्थः । तस्मादित्यादि । अत्र द्वौ तच्छन्दौ । तत्र द्वितीयस्य सम्बन्धी यच्छन्दः यस्य ' इति षष्ठ्यन्तः श्रूयते । प्रथमस्य तु यत्तदोर्नित्यसम्बन्धादश्रूयमाणोऽपि अनु. मीयते । ... ततोऽयमर्थो भवति - यस्य ज्ञानस्य यस्मिन् ज्ञेये कर्मणि व्यापार उपदर्श्यते कारकान्तरेणा व्यवहितो व्यापारः प्रतीयते तस्यैव ज्ञेयस्य कर्मणस्तद् ज्ञानं प्रमाणमिति । 10 ... ननु ... कथं 'तस्यैव कर्मणस्तत् प्रमाणम्' इत्युच्यत इति चेत्, नायं दोषः, नैवेयं सम्बन्धलक्षणा षष्ठी, किं तर्हि ? कृद्योगलक्षणा । .... तत्रापीत्यादि । ननु विशेषणेऽधि. गन्तव्ये विशेष्यज्ञानं फलमुच्यते । तत्र ' फलं नास्ति ' इति कुन उच्यते इति चेत्, नायं दोषः, अपिशब्दोऽवधारणार्थः । तत्रैव विशेषणेऽधिगन्तव्ये इत्यर्थः ।... उभयं
6
1
तत् किमिति तदुत्तरम् । अत्र चैकस्योभयरूपत्वविशेष परिहाराय यथेत्यादिना दृष्टान्तः । 15 यस्माद् योगिनां योगसमाप्तावात्मदर्शिनां तद् ग्राह्यमपि भवति ग्राहकमपि । अर्थान्तरफेलवादे एतदनिष्टं तथा सति प्रसज्यत इत्याह-यद्यर्थान्तरत्वेऽपीत्यादि । स्वसंवित्तौ हि ज्ञानस्येत्यादि । अनेनैतद् दर्शयति-आत्मौपम्येनार्थान्तरस्य प्रमेयत्वे विशेषणज्ञानमुभयाकारं न सिध्यति दृष्टान्तदाष्टन्तिकयोर्वैषम्यात् । अपि तु स्वसंवित्तावेव ज्ञानस्य वस्तु उभयं भवति । स्वसंवित्तौ च ज्ञानस्योभयथापि प्रमाणं प्रमेयं चास्माभिरिष्यत 20 एव । तच्च भवता आत्मोदाहरणेन ग्राह्यते । एवं तर्हीत्यादिना यथा दीपस्य तमो नेवृत्तिः फलमर्थान्तरमेवमज्ञानादिनिवृत्तिः फलं भविष्यतीति दर्शयति विषयभेदोऽप्यत्र नास्ती - त्युपन्यासः । न सर्वत्रेति फलव्यवस्थाया अव्यापकत्वमाह । कुत एतन्न सर्वत्रेत्याहकचिदित्यादि । आभोगमात्रेण मनसिकारमात्रेण । यत्र यस्य प्रयत्नमात्रेण ज्ञानं जायते तस्य तत्राज्ञानं नास्ति, यथा कस्यचित् प्रज्ञावतः क्वचिच्छिल्पे, लौ कि कज्ञानमपि 25 कस्मिंश्चिज्ज्ञेये प्रयत्नमात्रेण जायत इति व्यापक विरुद्धमाह । निवृत्तिर्नासती फलमिति अज्ञानाद्यभावोऽज्ञानादिनिवृत्तिः । अभावे च कोऽपि व्यापारो नास्ति, अनुपारूपेयत्वात् । अक्रियमाणा च प्रमितिर्भवितुं नार्हति प्रमाणस्य फलं भवितुं नार्हतीत्यर्थः, यदसत् तन्न प्रमाणस्य फलम्, अत्यन्ताभाववत्, निवृत्तिरप्यस्तीति विरुद्धव्याप्तः । दीपस्यापि न तमोनिवृत्तिमात्रं फलम् अपि तु घटादिप्रकाशनम्, तस्मात् तदवस्थः, प्रमाणफला३० भावदोष इति । " –VT.D. ed. पृ० ४३b-९३a। P. ed. पृ० ४९a - ५९b
"
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org