________________
अथ सवृत्तिके प्रमाणसमुच्चये द्वितीये स्वार्थानुमानपरिच्छेदे नैयायिकानुमानपरीक्षा ।
सम्बन्धो नेन्द्रियग्राह्यो नेवः सर्वत्र सम्भवात् । न मतुब् व्यभिचारित्वाद् ईवो वा शेषवत्यपि ॥२८॥ मतुपा चेदव्युत्पत्तौ न सम्बन्धान्तराद् गतिः। सामान्याद् दृष्टमप्येवं फलमन्यन्न लभ्यते ॥ २९ ॥ लिङ्गज्ञानं प्रमाणं चेद् व्यपदेशो न सिध्यति ।
सर्व त्रिकालविषयम् नैयायिकानामपि " तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टं च" [ न्यायमू० १।१।५] इति ।
10 तत्र प्रत्यक्षपूर्वकं [ तावद् V] न युज्यते, यस्मात् सम्बन्धो नेन्द्रिय ग्राह्यः । न हि लिङ्गलिङ्गिनोः सम्बन्ध इन्द्रियज्ञानस्य विषयो यतस्तत्पूर्वक
१ सम्बन्धो नेन्द्रियग्राह्यः । पूर्ववदिति । नेवः सर्वत्र सम्भवात् PS1 PSV1 इति त्रयः पादास्तथाप 'पूर्ववदिति' इत्यस्य पादत्वं कथमपि न सम्भवतीत्यनादृतमस्माभिः ॥ २ शेषवत्य- . पीवः VT.। शेषवत्यपीवक्रिया PS2 PSV', एतत्पाठाङ्गीकरणे तु 'व्यभिचाराद मतुब है नास्ति शेषवत्यपीवक्रिया।' इति कारिकाध ज्ञेयम् ॥ ३ न सम्बन्धान्तराद् गतिः। शेषवतो भावात् । न सम्बन्धान्तराद् गतिः PS' । न सम्बन्धान्तराद् गतिः। शेषवतो न भवति । न सम्बन्धान्तराद् गतिः PSV' || ४ 'न स्याद् बन्धान्तराद गतिः' इत्यपि भवेदत्र पाठः ॥ ५ 'लभ्यते न फलान्तरम्' इत्यपि पाठः स्यादत्र। 'फलान्यत्वं न लभ्यते' PS' ६ विभागश्च न सिध्यति PS1 PSV ॥ ७ PS1 PSV1 मध्येऽयं पादो नास्ति । इतः 20 पर निषिद्धे कार्यकारणे इति चतुर्थः पादः । दृश्यतां पृ० १८४ पं० ३, १८, टि० ४ ॥ ८ न च सर्वत्र लिङ्गलिङ्गिनौ प्रत्यक्षौ यतस्तत्पूर्वकमनुमानमिति स्यात् । यथो(चे)क्तं पूर्ववदिति अत्र पूर्वेण तुल्यं पूर्ववदिति इव शब्दो भवति आहो स्वत् पूर्वमत्रास्तीति तद्वदिति मतुप्छब्दो भवति । ततः किं भवति ? नेवः सर्वत्र सम्भवात् । सर्वमिति अनुमानेन सम्बन्धग्रहणेऽनुभूतवत् पश्चादपि लिङ्गना. नुमेयं गृह्यते । तदेकं पूर्ववदिति न वक्तव्यम् । सम्बन्धान्तराचेदं पूर्ववदिति गृह्यते । तदप्रदर्शनादप्रदर्शितमेवानुमानम् । इवशब्दो न युज्यते । न मतु व्यभिचारित्वात् ॥ मतुम्कारयोगे पूर्वमत्रास्तीति कार्य पूर्ववत् , तद्विषयं ज्ञानमपि पूर्ववत् । कारणात् कार्यज्ञानं तर्हि व्यभिचारान्न प्रमाणम् । कारणे सत्यपि प्रतिबन्धसम्भवा कारगान्तरासामग्रीसम्भवाच कार्यानुत्पत्तिः सम्भवति । एवं तावत् पूर्ववद् न युज्यते । इवो वा शेषवत्यपि । शेषवदित्यपि यदि इवः क्रियते शेषेण प्रत्यक्षेग तुल्य. विषयं ज्ञानं तदपि शेषवदिति तदपि व्यभिचारान्न प्रमाणम् । न ह्यवश्यं तुल्यरूपमात्रेण रसस्तुल्यो 80 भवति । एवं शेषवदितीवशब्दोऽपि न युज्यते V ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org