________________
२१६ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकानुमानपरीक्षा। मनुमानं स्यात् । न च सर्वत्र लिङ्गलिङ्गिनौ प्रत्यक्षौ स्तः।।
पूर्ववदिति यदुक्तं तदत्र न युज्यते, यस्मात् पूर्वेग तुल्यं पूर्ववदिति इवो भवति आहोस्वित् पूर्वमस्यास्तीति मतुब् भवति ? ततः किमिति चेत् , नेवः
सर्वत्र सम्भवात् । सर्वस्मिन्ननुमाने सम्बन्धकालेऽनुभूतमित्र पश्चाल्लिङ्गेन 5 गृह्यते, तस्मादेकमेव पूर्ववदिति न वक्तव्यम् । सम्बन्धान्तरेग चेदं पूर्ववद् गृह्यते, तदनिर्देशादनुमानमनिर्दिष्टम् । एवं तावद् इवो न युज्यते ।
न मतुब् व्यभिचारित्वात् । यदि मतुः क्रियते पूर्व कारण मस्य कार्य: स्यास्तीति पूर्ववत् , तद्विषयं ज्ञानमपि पूर्ववत् , कारणात् कार्यज्ञानमिति यत्
तदपि व्यभिचाराद् न प्रमाणम् । कारणे सत्यपि प्रतिबन्धात् कारणान्तराभावाच 10 कार्य नोत्पद्यते । एवं तावत् — पूर्ववत् ' न युज्यते ।
____ इयो वा शेषवत्यपि । शेषेवत्यपि यदि इवः क्रियते शेषेण प्रत्यक्षेण तुल्यो विषयो यस्यास्ति तज्ज्ञानं शेषवदिति तदपि व्यभिचारान प्रमाणम् । न ह्यवश्यं
तुल्यरूपाद् रसादि तुल्यं भवति । एवं शेषवत्यपीवो न युज्यते । - मतुपा चेदव्युत्पत्तौ न सम्बन्धान्तराद् गतिः । 15 यदि मतुप् [ क्रियते ] शेष कार्यमत्रास्तीति शेषवत् कारणम् , तद्विषयं
ज्ञानमपि शेषवत् । तथा सति कार्यत्वाग्रहणेऽविनामावित्वसम्बन्धग्रहणादनुमान न स्यात् । तच्च दृष्टम् । एवं यत् कृतकादिभिरनि त्याद्यनुमानं तदपि न स्यात् । पूर्वेषु यथोक्तानुमानेष्वपि 'अव्युत्पत्ती न सम्बन्धान्तराद् गतिः' इति वक्तव्यम् ,
अन्ते निर्देशात् । कारणत्वादीनां च सम्बन्धित्वेऽनुमेये कार्यत्वाद्याकारज्ञानोत्पत्तिः 20 प्रसज्यते, सम्बन्धमात्रद्वारेण लिँङ्गाल्लिङ्गिज्ञानोत्पत्तेः सर्वाकारं च ग्रहणं स्यात् , सर्वात्मना कारणकार्यत्वात् ।
१ दृश्यतां पृ. २१५ टि. २॥ २ यत् कारणं शेषयोगेन शेषवत् तज्ज्ञानमपि शेषवत् तथापि कार्याग्रहणेऽविता भावसम्बन्धं गृहीत्वा कारगानुमानं न स्यात् । तच दृष्टम् । एवं कृतकादेरनित्यायनु
मानमपि [ न ] स्यात् । पूर्व यथोक्तानुमानेष्वपि सम्बन्धाव्युत्पत्तौ ‘न सम्बन्धान्तराद् गतिः' इति 25 वक्तव्यम् , उत्तरत्र निर्देशात् । कारणत्वादेः सम्बन्धित्वेन कार्याद्याकारज्ञानोत्पत्तिरनुमाने प्रसज्यते ।
सम्बन्धित्वमात्रद्वारेग लिङ्गेन लिङ्गिज्ञानोत्पत्तिः। सर्वाकारं च सर्वात्मना कारणकार्यग्रहणात् । एवं पूर्ववच्छेषवच्च न युज्यते V॥ ३ दृश्यतां पृ० २१५ टि. ४, ५॥ ४ PS1 PSV1 मध्ये कारिकांशत्वमस्य, दृश्यतां पृ. २१५ टि. ३, ४॥ ५ थ° मर्° K। फ्यि म" ल° =उत्तरत्र V. VT. ॥ ६ तंग्स्° दङ्' तंग्स् चन्' ग्वि-लिङ्गलिङ्गि PSV ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org