Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
View full book text
________________
॥ ॐ अह सद्गुरुभ्यो नमः॥
नवमं परिशिष्टम् । चन्द्रानन्दविरचितवृत्तौ विद्यमानानामवतरणानामकारादिक्रमेण सङ्ग्रहः ।
पृष्ठम् अग्निहोत्रं जुहुयात् स्वर्गकामः [ मैत्रायण्युपनिषत् ६ । ३६ ]
४५ 5 अघोऽम्बूनि नयति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः [ छान्दोग्योपनिषत् ८ । १२ । १.] ' एवंविधप्रसिद्धसम्बन्धस्याथै क देशभ सन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनात् सञ्जायमानो लैङ्गिकम्' इति वृत्तिकारः
६९ 10 उक्तं च तैः स्वयोगशास्त्रेवीतरागंस्मरन् योगी वीतरागत्वमश्नुते । सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् ॥ येन येन हि भावेन युज्यते यन्त्रबाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ।। इति ।
एतत् सर्व लिङ्गदेवादिस्वरूपं वैशेषिकातेऽप्यवसातव्यम् , यतो नैयायिकवैशेषिकाणां हि मिथः प्रमागतत्वानां सङ्ख्याभेदे सत्यप्यन्योन्यं तत्वानामन्तर्भावेऽल्पीयानेव भेदो जायते । तेनैतेषां प्रायो 15 मततुल्यता । उभयेऽप्येते तपस्विनोऽभिधीयन्ते । ते च शैवादिभेदेन चतुर्धा भवन्ति । तदुक्तम्-- आधा(चा)रभस्मकौपीन जटायज्ञोपवीतिनः। स्वस्वाचारादिभेदेन चतुर्धा स्युस्तपस्विनः। शैवाः पाशुपताश्चैव महाव्रतधरास्तथा। तुर्याः कालमुखा मुख्या भेदा एते तपस्विनाम् ॥
तेषामन्तर्भेदा भरटभक्तरलैङ्गिकतापसादयो भवन्ति । भरटादीनां व्रतग्रहणे ब्राह्मगादिवर्णनियमो नास्ति । यस्य तु शिव भक्तिः स व्रती भरटादिभवेत् । परं शास्त्रेषु नैयायिकाः सदा शिवभक्तत्वाच्छैवा 20 इत्युच्यन्ते, वैशेषिकास्तु पाशुपता इति । तेन नैयायिकशासनं शैवमाख्यायते, वैशेषिकदर्शनं च पाशुपतमिति । इदं मया यथाश्रुतं यथादृष्टं चात्राभिदधे । तत्तद्विशेषस्तु तद्ग्रन्थेभ्यो विज्ञेयः [पृ. २०२१]। ......मुनिविशेषस्य कापोती वृत्तिमनुष्ठितवतो रथ्यानिपतितांस्तण्डुलकणानादायादाय कृताहारस्याहारनिमित्तात् कगाद इति संज्ञाऽ जनि । तस्य कगादस्य पुरः शिवेनोलू करूपेग मतमेतत् प्रकाशित तत औलूक्यं प्रोच्यते, पशुपत्तिभक्तत्वेन पाशुपनं चोच्यते । कगादस्य शिष्यत्वेन वैशेषिका काणादा र भण्यन्ते । आचार्यस्य च प्रागभिधानीपरिकर(नात् परं कर ?) इति नाम समाम्नायते [पृ. १०७ ] 1......षट्पदार्थी कग दकृता, तद्भाष्यं प्रशस्तकर कृतम् , तट्टीका कन्दली श्रीधराचार्टीया, किरणावली तूदयनसन्दृब्धा, व्योममतिव्यमिशिवाचार्यविरचिता, लीलावतीतर्कः श्रीवत्साचार्यायः, आत्रेयतन्त्रं चेत्यादयो वैशेषिकतर्काः [ पृ० ११४] ।” इति हरिभद्रसूरिप्रणीतषड्दर्शनसमुच्चयस्य [जैन आत्मानंद सभा, भावनगर, इत्यतः प्रकाशतायाम् ] गुगरत्तसूरिकृतायां बृहवृत्तौ । १४६६ विक्रमाब्दे 38 गुगरत्न मूरिभिः क्रियारत्नपमुबायो ग्रन्थो विरचित इति तदानीं तेषामस्तित्वमासीदिति ध्येयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360