Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 284
________________ या 40.0 २१४ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्ष परीक्षा । मित्यादिना... प्रमाणात् फलं भिन्नं दर्शयति । विशेषणे न भेदत इत्यादेरयमर्थःयतोऽन्यविषया क्रिया तस्यास्तत्र फलं न भवति... अन्यविषयस्य प्रमाणस्येति हेतु:, •. अन्यत्र फलं च न युक्तमिति प्रमाणस्य फलम् । विषयान्तरे इत्यादि दृष्टान्तः । विशेष्यज्ञानकारणत्वादित्यसिद्धत्वमाह ।... न, अतिप्रसङ्गादिति । यः प्रमाता यद् 5. गवादि कर्म... एतत् सर्वमपि विशेष्यज्ञानकारणत्वाद् विशेषणज्ञानवत् करणं प्रसज्यत इत्यर्थः । तस्मादित्यादि । अत्र द्वौ तच्छन्दौ । तत्र द्वितीयस्य सम्बन्धी यच्छन्दः यस्य ' इति षष्ठ्यन्तः श्रूयते । प्रथमस्य तु यत्तदोर्नित्यसम्बन्धादश्रूयमाणोऽपि अनु. मीयते । ... ततोऽयमर्थो भवति - यस्य ज्ञानस्य यस्मिन् ज्ञेये कर्मणि व्यापार उपदर्श्यते कारकान्तरेणा व्यवहितो व्यापारः प्रतीयते तस्यैव ज्ञेयस्य कर्मणस्तद् ज्ञानं प्रमाणमिति । 10 ... ननु ... कथं 'तस्यैव कर्मणस्तत् प्रमाणम्' इत्युच्यत इति चेत्, नायं दोषः, नैवेयं सम्बन्धलक्षणा षष्ठी, किं तर्हि ? कृद्योगलक्षणा । .... तत्रापीत्यादि । ननु विशेषणेऽधि. गन्तव्ये विशेष्यज्ञानं फलमुच्यते । तत्र ' फलं नास्ति ' इति कुन उच्यते इति चेत्, नायं दोषः, अपिशब्दोऽवधारणार्थः । तत्रैव विशेषणेऽधिगन्तव्ये इत्यर्थः ।... उभयं 6 1 तत् किमिति तदुत्तरम् । अत्र चैकस्योभयरूपत्वविशेष परिहाराय यथेत्यादिना दृष्टान्तः । 15 यस्माद् योगिनां योगसमाप्तावात्मदर्शिनां तद् ग्राह्यमपि भवति ग्राहकमपि । अर्थान्तरफेलवादे एतदनिष्टं तथा सति प्रसज्यत इत्याह-यद्यर्थान्तरत्वेऽपीत्यादि । स्वसंवित्तौ हि ज्ञानस्येत्यादि । अनेनैतद् दर्शयति-आत्मौपम्येनार्थान्तरस्य प्रमेयत्वे विशेषणज्ञानमुभयाकारं न सिध्यति दृष्टान्तदाष्टन्तिकयोर्वैषम्यात् । अपि तु स्वसंवित्तावेव ज्ञानस्य वस्तु उभयं भवति । स्वसंवित्तौ च ज्ञानस्योभयथापि प्रमाणं प्रमेयं चास्माभिरिष्यत 20 एव । तच्च भवता आत्मोदाहरणेन ग्राह्यते । एवं तर्हीत्यादिना यथा दीपस्य तमो नेवृत्तिः फलमर्थान्तरमेवमज्ञानादिनिवृत्तिः फलं भविष्यतीति दर्शयति विषयभेदोऽप्यत्र नास्ती - त्युपन्यासः । न सर्वत्रेति फलव्यवस्थाया अव्यापकत्वमाह । कुत एतन्न सर्वत्रेत्याहकचिदित्यादि । आभोगमात्रेण मनसिकारमात्रेण । यत्र यस्य प्रयत्नमात्रेण ज्ञानं जायते तस्य तत्राज्ञानं नास्ति, यथा कस्यचित् प्रज्ञावतः क्वचिच्छिल्पे, लौ कि कज्ञानमपि 25 कस्मिंश्चिज्ज्ञेये प्रयत्नमात्रेण जायत इति व्यापक विरुद्धमाह । निवृत्तिर्नासती फलमिति अज्ञानाद्यभावोऽज्ञानादिनिवृत्तिः । अभावे च कोऽपि व्यापारो नास्ति, अनुपारूपेयत्वात् । अक्रियमाणा च प्रमितिर्भवितुं नार्हति प्रमाणस्य फलं भवितुं नार्हतीत्यर्थः, यदसत् तन्न प्रमाणस्य फलम्, अत्यन्ताभाववत्, निवृत्तिरप्यस्तीति विरुद्धव्याप्तः । दीपस्यापि न तमोनिवृत्तिमात्रं फलम् अपि तु घटादिप्रकाशनम्, तस्मात् तदवस्थः, प्रमाणफला३० भावदोष इति । " –VT.D. ed. पृ० ४३b-९३a। P. ed. पृ० ४९a - ५९b " Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360