SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 5 सप्तमस्याध्यायस्य प्रथममाह्निकम् । इदानीं रूपादीनाह - 20 उक्ता गुणाः । ७ । १ । रूपादिसूत्रेणोद्दिष्टा इत्यर्थः । गुणलक्षणं चोक्तम् । ७ । १ । २ । द्रव्याश्रयी [ १ । १ । १५ ] इत्यादिना द्रव्यकर्मभ्यां वैधर्म्यं कथितमित्यर्थः । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् । ७ । १ । ३ । तथ ह्युक्तं ' रूपरसगन्धस्पर्शवती पृथिवी ' [ २ । १ । १ ] इत्यादि । तत्र - 10 पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याः | ७ | १ । ४ । घटादेः पार्थिवस्य द्रव्यस्य विनाशात् तद्गतानामपि रूपादीनां विनाश आश्रयविनाशात् अग्निसंयोगाच्च । ७ । १ । ५ । अग्निसंयोगाच्च पार्थिवेषु परमाणुषु रूपादीनां विनाशः, कार्ये समवेतानां स्वाश्रय15 विनाशादेव । परमाणुष्वग्निसंयोगादेव कुतः ? गुणान्तरप्रादुर्भावात् । ७ । १ । ६ । यस्माच्छ्यामादिगुणेभ्यो व्यतिरिक्तं गुणान्तरमुत्पद्यते ततः पूर्वे परमाणुगुणा विनष्टाः, गुणवति गुणानारम्भात् । एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । १ । ७। एतेन गुणान्तरप्रादुर्भावेन नित्येषु परमाणुषु रूपादीनामनित्यत्वमुक्तं पार्थिवेष्वेव । यतः - अप्सु तेजसि वायौ चं नित्या द्रव्यनित्यत्वात् । ७ । १ । ८ । १ मुत्पाद्यते । २ च 0 मध्ये नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy