SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सप्तमस्याध्यायस्य प्रथममाह्निकम् । सलिलानलानिलपरमाणुरूपादयो नित्या आश्रयनित्यत्वाद् विरोधिगुणान्तराप्रादुभवाच्च नाग्निसंयोगाद् विनाशः । अनित्येष्वनित्या द्रव्यानित्यत्वात् । ७ । १ । ९ । अनित्येषु सलिलादिषु अनित्या रूपादय आश्रयविनाशे तेषामपि विनाशात् ।। कारणगुणपूर्वाः पृथिव्यां पाकजाश्च । ७।१।१०। । अनित्यायां कार्यरूपायां पृथिव्यां कारणगुणपूर्वा रूपादयो जायन्ते, नित्यायां तु परमाणुस्वभावायां पाकजाः पाकादग्निसंयोगाजाताः । अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते।७:१।११। - कार्ये उदकाद्यवयविनि समवायिकारणरूपे रूपादय आरभ्यन्ते, पाक जास्तु जलाधणुषु नैव सन्ति विरोधिगुणान्तराभावात् ।। 10 अगुणवतो द्रव्यस्य गुंणारम्भात् कर्मगुणा अगुणाः । ७ । १ । १२ । अगुणस्य द्रव्यस्यैवोत्पन्नस्य कारणगुणैर्गुणा जन्यन्ते न गुणकर्मणाम् , अशेषावयवगुणैकार्थसमवायाभावात् कर्मत्ववत् । एतेन पाकजा व्याख्याताः । ७ । १ । १३ । अमिसंयोगान्निवृत्तेषु श्यामादिषु पाकजा जायन्ते इति तेऽपि गुणरहिते सिद्धाः। 15 संयोगवति संयोगारम्भवद् गुणवति पाकजा इति चेत् , न, एकद्रव्यवत्त्वात् । ७।१ । १४ । एकद्रव्यवन्तः पाकजास्ते कथं तत्रैवारभ्येरन् विरुद्धत्वात् ? संयोगस्य तु संयोगवत्यारम्मो न दुष्यति, अनेकद्रव्यत्वात् । परिमाणमिदानी वक्ष्यामःअणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ७ । १ । १५ । 'नित्ये ' इत्यध्यायनाम, ' यदुपलभ्यते तत्रावश्यं महत्त्वम् , अणुत्वे तु परमाणुव्यणुकमनसामनुपलब्धिः ' एवं 'नित्याख्येऽध्याये उपलब्ध्यनुपलब्ध्योः कारणे महत्त्वागुत्वे कथिते भवतः, उपलब्धौ महत्त्वस्य नियमात् । व्यणुकस्य महत्त्वेऽप्पनुपलब्धिः। 20 १ गुणान्तरारभ्भात् O. । २ दुष्यत्येव द्रव्यत्वात् 0.। ३ दृश्यताम् ४ । १।६-८। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy