________________
5
10
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे
कारण बहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महत् । ७ । १ । १६ ।
त्र्यणुके तत्कारणद्व्यणुकगता बहुत्वसंख्या महत्त्वं जनयति कारणानाममहत्वात् । व्यङ्गुले कारणाङ्गुलिमहत्त्वं महत्त्वं करोति । प्रशिथिलः संयोगः प्रचयः । द्वितूलके तूल पिण्डयोर्वर्तमानः प्रचयः स्वाधारावयवप्रशिथिल संयोगापेक्षा महत्त्वमारभते ।
15
५४
तद्विपरीतमणु । ७ । १ । १७ ।
एतस्मात् त्रिकारणाद् महतो यद् विपरीतं द्व्यणुकपरिमाणं तदणु प्रत्येतव्यम् । अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच | ७ | १ | १८ | तस्मिन् महति वस्तुनि कुबलादावामलकापेक्षया अणुव्यवहारः, आमलके तु बिरवापेक्षया । एवं प्रकर्षस्य भावाभावा यामेकस्मिन्नेवाणुमहद्व्यवहारो भाक्तः ।
कुतः !
एककालत्वात् । ७ । १ । १९ ।
यत एकस्मिन्नेव काले तस्मिन्नेव वस्तुनि अन्यापेक्षया द्वौ पुरुषावणुमहद्व्यवहारं विरुद्धं कुर्वातेऽतो जानीमहे ' माक्तोऽयम् ' इति ।
तत्रापेक्षिकाणु वस्तुनि
दृष्टान्ताच्च । ७ । १ । २० ।
यथा शुक्लतन्तुजनिते कार्ये शुक्लमैव, न कृष्णता, एवमतो दृष्टान्ताद् महद्भिरारब्धे महत्त्वमेव, नाणुत्वम् ।
अणुत्व महस्वयोरणुत्व महत्वाभावः कर्मगुणैर्व्याख्यातः । ७ । १ । २१ । यथा गुणकर्माणि निर्गुणानि कार्यस्य रूपादेरवयवगुणैरे कार्थसमवायाभावादेवं 20 कारणबहुत्वादिभिरेकार्थसमवायाभावादणुत्व महश्वयोस्तदभावः ।
अणुत्व महत्त्वाभ्यां कर्मगुणा अगुणाः । ७ । १ । २२ । कारणबहुत्वादिभिरेकार्थसमवायः भावादणुस्व महत्त्वे यथा अणुत्वमहत्त्वशून्ये एवं कर्मगुणा अणुत्व महत्त्वशून्याः ।
१ ° भ्यामेतस्मिन्नेव P । २ एकस्मिन्नेव वस्तुनि P.
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org