SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सप्तमस्याध्यायस्य प्रथममाह्निकम् । ___ एतेन दीर्घत्वहस्वत्वे व्याख्याते । ७।१ । २३ । उपलब्ध्यनुपलब्धी महत्त्वाणुत्ववत् । कारण महत्त्वादिभ्यश्च जायते दीर्घत्वम् , विपरीतं इस्वत्वम् , तस्मिन् विशेषभावादित्यौपचारिकत्वं तथैव । तयोर्दीर्घत्वहूस्वत्वाभाव इत्यतिदेशः। कर्मभिः कर्माणि गुणैर्गुणाः । ७ । १ । २४ । यथा कारणबहुत्वाघेकार्थसमवायाभावादणुत्वमहत्त्वशून्या एवं दीर्घत्वहस्वत्वशून्या एते कर्मगुणाः। तदनित्येऽनित्यम् । ७ । १ । २५ । एतच्चतुर्विधं परिमाणमनित्ये वर्तमानत्वादनित्यम् । किन्तु 10 नित्यं परिमण्डलम् । ७ । १ । २६ । परमाणुपरिमाणं परिमण्डलम् , तन्नित्यम् । तस्य अविद्या विद्यालिङ्गम् । ७ । १ । २७ । परिमाणरहितस्य व्यस्यासम्भवः परमाणूनां परमाणुपरिमाणस्य सम्भवे लिङ्गम् । 15 ' अविद्या ' असम्भवः, सम्भवो । विद्या' । विभवाद् महानाकाशः । ७ । १ । २८ । विभवाद् मूर्तद्रव्यैः समागतैरगच्छतः संयोगात् परममहत्त्वमाकाशस्यास्तीति गम्यते। तथा चात्मा । ७।१।२९ । आकाशमिवात्मापि परममहान् दृष्टव्यः । अँसमासाद्] दिकालावपि महान्तौ। 20 तदभावादणु मनः । ७।१। ३० । विभवस्याभावाद् मनसोऽणुत्वं ज्ञानायोगपद्याच्च । १ दृश्यतां पृ० ५४ पं० ७ । २ दीर्घहस्वत्व 0. । ३ तदनित्ये नित्यं PS.: तदनित्ये 0.। अनित्ये P.। एतदनित्यम् मि. । अनित्येऽनित्यम् , नित्ये नित्यम् उ. । ४ परिमाणं नित्ये निवर्तमानत्वा P.। परिमाणं निवर्तमानत्वा 0.। ५ परमाणुषु परिमाणं 0 । ६ द्रव्यस्यामसम्भवो 5 P. । ७ तथात्मा 0. P.। ८ असमा दिक्कालावपि 0. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy