Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 273
________________ सप्तमं परिशिष्टम् । २०३ शयति । किं कारणमेवमवधार्यत इत्याह-नेत्यादि । धर्मिणि प्रसङ्गाभावादिति, साध्यवति धर्मिणि धर्मी न सम्भवति, तस्य स्वतन्त्रत्वात् । सामीप्यात् , अन्यासनिकृष्ट स्वात् तत्सामीप्यम् । श्रावणत्वादित्यपि हेतुः स्यादिति अपिशब्दोऽवधारणार्थः गर्दाथों वा । नन्वपक्षधर्मव्यावृत्त्यर्थं तद्धर्मवचनम् , तथा च तद्वत एव' इत्यवधारणा. भावान्नासाधारणस्य हेतुत्वपसङ्ग इति चेत् , अयमाशयः-- अपक्षधर्मस्याप्रसक्तत्वात् । तद्वावर्तनाय प्रयासो निरर्थकः, यस्मादसम्बद्धार्थस्य स्वयमेव ' अस्येदं कार्य कारणम् । [ वै० सू० ९ । १८ ] इत्यादिना प्रागेव हेतुत्वं निराकृतमिति । साध्यधर्मेऽपी त्यादि, तत्रावश्यमेवमवधारयितव्यं 'साध्यस्यैव धर्मः' इत्यादि सर्व वक्तव्यम् । न, तस्येत्यादि, साध्यवर्मोऽन्यत्र द्वेधा वर्तः इति विशेष्यते, तत्र यदि साध्यस्यैव धर्म इत्यवधार्यते [तर्हि] विशेषणानुपपत्तिः । तस्मात् 'साध्यस्य धर्म एव' इत्यवधारयितव्यमिति यद्यप्य. 10 साधारणोऽपि धर्म एव तथापि तस्य हेतुत्वं न प्रसज्यते, अन्यत्र वृत्त्यभावात् । यदाहअसाधारण इत्यादि । पुनरप्ययं किमर्थमुपन्यासः, यावता अपक्षधर्मव्यावर्तनार्थमेव तत्र साध्यधर्म उक्तः, यदाह-' पक्षस्य धर्म एवेत्यवधारणात् ' [ ] इति चेत्, ननु पक्षधर्म एवेत्यधिष्ठितं कृत्वा वचनान्न दोषः । अनित्यत्वमात्रेत्यादि, यस्यानित्यत्वमात्रं साध्यं तस्य घटादयोऽपि तद्वन्त इति 15 तद्धर्मश्चाक्षुषत्वमपि हेतुः स्यात् । अथाधिकरण भेदकृतरूपमेदाश्रयणेन घटादिगतस्यानित्यत्वस्यासाध्यत्वान्नायं प्रसङ्ग इति चेत् , तथा सति श्रावणत्वमेव हेतुः स्यात् । शब्दानित्यत्वस्य साध्यत्वे च समुदायार्थः स्यात् । अनिश्चित इति, निश्चितं निश्चयः, न विद्यते निश्चितमत्रेत्यनिश्चितः । पर्यायान्तरेणास्यार्थ प्रकाशयति-संशयहेतुरिति । संशयहेतुरिति किमिति चेत् , व्यभिचारीति । तन्मात्रमपीति, 'तच्छब्देन साध्यमपि समुदायो 20 धर्मो धर्मी वा स्यात् , अवधारणमपि तद्वत एव धर्म उत तद्वतो धर्म एव' इत्येतावन्तो विकल्माः । तस्मादित्यादि, अनित्यत्वादिधर्मवता घटादिना यत् साधर्म्य साध्यं तदव्यभिचार्यभिधानं हेतुरिति । साध्यमिति तत् कुत इति चेत् , प्रत्यासतेः । तथा १ 'साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा' [ ३ । ७ ] इति साध्यधर्मस्य हेतुत्वं दिङ्नागेन प्रमाणसमुच्चयेऽभिहितम् । अत: पूर्वपक्षी अत्राक्षिपति–साध्यधर्मेऽपील्यादिना । एतच्च 25 दिङ्नागो न तस्येत्यादिना समाधत्ते । 'सपक्षे सनसन् द्वेधा पक्षधर्मः पुनस्त्रिधा। प्रत्येकमसपक्षेऽपि सदसद्विविधत्वतः ॥ [ ३ । ८ ]......... तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये। स हेतुः......॥ [३ । ३४ ]' इति 'अन्यत्र सपक्षे द्वधा सन्नसंश्च' इति हेतुविशेषणाभिधानान्नायं दोष इति दिङ्नागस्यात्राशयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360