________________
सप्तमं परिशिष्टम् ।
२०३ शयति । किं कारणमेवमवधार्यत इत्याह-नेत्यादि । धर्मिणि प्रसङ्गाभावादिति, साध्यवति धर्मिणि धर्मी न सम्भवति, तस्य स्वतन्त्रत्वात् । सामीप्यात् , अन्यासनिकृष्ट स्वात् तत्सामीप्यम् । श्रावणत्वादित्यपि हेतुः स्यादिति अपिशब्दोऽवधारणार्थः गर्दाथों वा । नन्वपक्षधर्मव्यावृत्त्यर्थं तद्धर्मवचनम् , तथा च तद्वत एव' इत्यवधारणा. भावान्नासाधारणस्य हेतुत्वपसङ्ग इति चेत् , अयमाशयः-- अपक्षधर्मस्याप्रसक्तत्वात् । तद्वावर्तनाय प्रयासो निरर्थकः, यस्मादसम्बद्धार्थस्य स्वयमेव ' अस्येदं कार्य कारणम् । [ वै० सू० ९ । १८ ] इत्यादिना प्रागेव हेतुत्वं निराकृतमिति । साध्यधर्मेऽपी त्यादि, तत्रावश्यमेवमवधारयितव्यं 'साध्यस्यैव धर्मः' इत्यादि सर्व वक्तव्यम् । न, तस्येत्यादि, साध्यवर्मोऽन्यत्र द्वेधा वर्तः इति विशेष्यते, तत्र यदि साध्यस्यैव धर्म इत्यवधार्यते [तर्हि] विशेषणानुपपत्तिः । तस्मात् 'साध्यस्य धर्म एव' इत्यवधारयितव्यमिति यद्यप्य. 10 साधारणोऽपि धर्म एव तथापि तस्य हेतुत्वं न प्रसज्यते, अन्यत्र वृत्त्यभावात् । यदाहअसाधारण इत्यादि । पुनरप्ययं किमर्थमुपन्यासः, यावता अपक्षधर्मव्यावर्तनार्थमेव तत्र साध्यधर्म उक्तः, यदाह-' पक्षस्य धर्म एवेत्यवधारणात् ' [ ] इति चेत्, ननु पक्षधर्म एवेत्यधिष्ठितं कृत्वा वचनान्न दोषः ।
अनित्यत्वमात्रेत्यादि, यस्यानित्यत्वमात्रं साध्यं तस्य घटादयोऽपि तद्वन्त इति 15 तद्धर्मश्चाक्षुषत्वमपि हेतुः स्यात् । अथाधिकरण भेदकृतरूपमेदाश्रयणेन घटादिगतस्यानित्यत्वस्यासाध्यत्वान्नायं प्रसङ्ग इति चेत् , तथा सति श्रावणत्वमेव हेतुः स्यात् । शब्दानित्यत्वस्य साध्यत्वे च समुदायार्थः स्यात् । अनिश्चित इति, निश्चितं निश्चयः, न विद्यते निश्चितमत्रेत्यनिश्चितः । पर्यायान्तरेणास्यार्थ प्रकाशयति-संशयहेतुरिति । संशयहेतुरिति किमिति चेत् , व्यभिचारीति । तन्मात्रमपीति, 'तच्छब्देन साध्यमपि समुदायो 20 धर्मो धर्मी वा स्यात् , अवधारणमपि तद्वत एव धर्म उत तद्वतो धर्म एव' इत्येतावन्तो विकल्माः । तस्मादित्यादि, अनित्यत्वादिधर्मवता घटादिना यत् साधर्म्य साध्यं तदव्यभिचार्यभिधानं हेतुरिति । साध्यमिति तत् कुत इति चेत् , प्रत्यासतेः । तथा
१ 'साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा' [ ३ । ७ ] इति साध्यधर्मस्य हेतुत्वं दिङ्नागेन प्रमाणसमुच्चयेऽभिहितम् । अत: पूर्वपक्षी अत्राक्षिपति–साध्यधर्मेऽपील्यादिना । एतच्च 25 दिङ्नागो न तस्येत्यादिना समाधत्ते । 'सपक्षे सनसन् द्वेधा पक्षधर्मः पुनस्त्रिधा। प्रत्येकमसपक्षेऽपि सदसद्विविधत्वतः ॥ [ ३ । ८ ]......... तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये। स हेतुः......॥ [३ । ३४ ]' इति 'अन्यत्र सपक्षे द्वधा सन्नसंश्च' इति हेतुविशेषणाभिधानान्नायं दोष इति दिङ्नागस्यात्राशयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org