________________
२०४
सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा ।
सति धर्मान्तरं परिहृतं भवतीति चाक्षुषत्वं श्रावणत्वं च परिहृतं भवति, तस्य तद्वता साध्यसाधर्म्यं नास्तीति । अवधारणादिति तद्वतैव साधर्म्यस्य इत्यवधारणात् । आकाशावस्तितासिद्धौ इति 'आदि' शब्देनात्मादयो ग्राह्याः । तत्रेत्याकाशादिसिद्धौ प्रतिज्ञावतः साध्यवतो वेति तच्छब्देन यदि अभिधानं परामृश्यते यदि वा साध्यमुभयथापि प्रयोगो नोपपद्यते । –VT. D. ed. पृ० १९०B – १९३ । P. ed.
पृ० २१७ - २१९A ।
वैशेषिकाणामित्यादि । तत्राप्रसिद्धो लिङ्गलिङ्गिनोः सम्बन्धस्याप्रसिद्धत्वात्, यथाग्निधूपयोः सम्बन्धः सन्नपि यस्य कार्यकारणलक्षणोऽसिद्धस्तं प्रति धूमोऽनपदेशोऽहेतुरित्यर्थः । असन् संयोगादिसम्बन्धाभावादसन् यथा विषाणी तस्मादश्व इति । यदश्व10 विषाणयोरनन्यत्वे सिद्धे ' विषाणी विद्धः ' इत्युच्यते किमत्र ज्ञायते ! यदि 'विषाणी तस्मादश्वः' इति वक्ति, वक्तव्यं तदसद्वचनमिति, न हि अश्वविषाणयोः कश्चिदपि सम्बन्धोऽस्तीति । सन्दिग्धो यः सन्नप्यनिश्चितः, यथा विषाणी विद्यत इत्युक्ते किमत्र ज्ञायते यदि ' विषाणी तस्माद् गौः ' इति वक्ति, वक्तव्यं तत् सन्दिग्धवचनमिति । कस्मात् ! महिषादिष्वपि विषाणमस्तीति । अप्रसिद्धस्तावदित्यादि, लिङ्गलिङ्गिनो: 15 सम्बन्धस्याप्रसिद्धौ दृष्टान्ताश्रयो द्वौ दोषौ सम्भवतः - दृष्टान्तस्याभावो वाऽप्रसिद्धार्थत्वं व हेत्वर्थेन । तत आह- वाशब्दो विकल्पार्थ इति । तत्र यदा तावद् दृष्टान्तधर्मिण एव स्वरूपाप्रसिद्धेः सम्बन्धो न प्रतीयते तदा दृष्टान्तस्याभाव:, धर्म्यसिद्धेः । अथ धर्मसिद्धावपि तत्र पूर्वं लिङ्गस्यादृष्टत्वात् सम्बन्धस्याप्रसिद्धत्वं तदा हेत्वर्थेनाप्रसिद्धार्थत्वं साधनवैकल्यमित्यर्थः : । कस्मात् पुनर्दृष्टान्ताभासो न तु हेत्वाभास इत्याह- एवं हीत्यादि । 20 अभ्यां प्रकाराभ्यां यस्माद् दृष्टान्तेऽप्रसिद्धस्तस्मादयं दृष्टान्तदोषः, न हेत्वाभासः ।
5
1
अथापीत्यादि । साध्यधर्मिणि [ असन्] सन् वा चाक्षुषत्वादितुल्योऽपसिद्धशब्देनोच्यते न दृष्टान्ते इति चेत्, तथा सति हेत्वर्थो विरुध्येत । कुतः पुनर्हेत्वर्थो विरुध्यत इत्याह- प्रसिद्धिपूर्वकत्वादपदेशस्येति । यः पूर्वं सम्बन्धकाले प्रसिद्धो विज्ञातः स एवापदेशो नान्य इत्यर्थोऽभिमतः । तथा हि- यद्यदपि वर्ष कर्म हेतुरिष्यते 25 तथा सति द्रव्यगुणकर्मणामेव कारणत्वमिति योऽभ्युपगमस्तस्य हानिरिति परिहार उक्तः । अभूतं न लिङ्गम्, किं तर्हि ? अभूतादिप्रतीतिः । हेतुः क इति चेत्, प्रसिद्धिपूर्वकस्वादपदेशस्येति उपलब्धिपूर्वकत्वादित्यर्थः । यस्य धूमादिभिरम्म्यादयः
१ प्रतिज्ञावान् साध्यवान् वेति VT. ॥ २ दृश्यतां पृ० १९४ पं० ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org