Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
View full book text
________________
सप्तमं परिशिष्टम् ।
सम्बद्धा विरोधिनोऽविरोधिनो वा प्रसिद्धास्तस्य धूमादयोऽपदेशः । प्रसिद्धिपूर्वक एवापदेश इति कथं प्रतीयत इति चेत्, पूर्वशब्दप्रयोगाच्च सम्बन्ध कालसिद्धत्वमेवानेनाभिधीयते, अन्यथा प्रसिद्धत्वादित्येवाभिधीयेत ।
प्रसिद्धं कृत्वेति, तत्र दृश्यमाने पिण्डे विषाणित्वमसत् सन्दिग्धं वा कृत्वा नोदाह्रियते, किं तर्हि : प्रसिद्धमेव । कुत एतदिति चेत्, 'यदि विषाणी ' इत्यनुवादात् 5 पक्षधर्माभ्युपगम एवमुच्यते, साध्यधर्मेऽश्वे गवि च तस्याप्रसिद्धत्वमनैकान्तिकत्वं च, न धर्मिणि पिण्डे । अथापि अभावस्य हेतुरिति असतो ज्ञानस्य हेतुरसन् सन्देहस्य हेतुः सन्दिग्धः कारणे कार्योपचारात्, न तु हेतोर्धर्पिण्यभावात् सन्दिग्धत्वाच्च ।
न्यूनाभिधेति वैकल्यमाह । ' विषाणी तस्माद् गौः' इति साधारणानैकान्तिकस्यैवोदाहरणम्, उदाहरणदर्शनाच्च ताहशस्यैव भावस्य प्रतीतिः स्यात्, न त्वशेषस्यानै- 10 कान्तिकस्य, असाधारणस्य विरुद्धाव्यभिचारिणश्च ततोऽत्यन्तं विलक्षणत्वात् कुतः प्रतीतिः ? यथेत्यादिनाऽसाधारणस्य तावदनुपादानमुदाहरणेन दर्शयति । पसु पदार्थेष्विति 'संशयकारणम्' इति वर्तते । कुतः षट्स्वपि संशयकारणमिति चेत्, सर्वत्राभावादिति सर्वत्रादर्शनादित्यर्थः । भावव्यपदेशो भवत्यस्मादिति दर्शनं भावः, तन्निषेधेनादर्शनमभाव उच्यते । ननु चानुक्तोऽपि ' सन्देहहेतुः सन्दिग्धः' इति लक्षणात् प्रतीयते इति चेत्, 15 असदेतत्, 'सन्देह हेतु:' इत्येतत् सन्दिग्धहेतुलक्षणं न कलानीयम् तस्यैवापरिज्ञानात् । आहुरिति वैशेषिक एव कश्चित् । विशेषयति व्यावर्तयतीति विशेष उभयत्र दृष्टत्वादिति साध्यापेक्षया तुल्यजातीयेषु इतरेषु च सम्बन्धित्वेन दृष्टत्वात् । ऊर्ध्वत्वादिवदिति, थोर्ध्वत्वं स्थाणौ पुरुषे च सम्बन्धिन्यनुवृत्तिद्वारेणास्त्येवं श्रावणत्वं द्रव्यादिपदार्थे सम्बन्धिनि व्यावृत्तिद्वारेण । ततश्च 'यदि विषाणी तस्माद् गौः' इत्यनेनोदाहरणे- 20 नासाधारण उपात्त इत्याशयः । तदयुक्तमिति यदि व्यावृत्तिरुभयथा भवेत् तद्द्वारेण सामान्यं स्यात्, सैव तु न संभवति । कुत इति चेत्, नेत्यादि । कस्माद् यतो व्यावृत्तिस्तदाभासः संचयो नोपपद्यत इति चेत्, आह - मा भूदित्यादि । एकद्रव्यवत्त्वं पृथिव्यादिभ्यो व्यावृत्तं न च तदाकारेण संशयं जनयति - किमेकद्रव्यवत्वात् पृथिवी आहोस्विज्जलमा होस्वित् तेज इति । तदनेन यद् यतो व्यावर्तते तत् तत्र तदाभासस्य 25 सन्देहस्य न हेतु:, यथैकद्रव्यवत्वं पृथिव्यादिषु श्रावणत्वमपि षड्भ्यः पदार्थेभ्यो भवन्मतेन व्यावृत्तमिति व्यापकविरुद्धप्रसङ्गमाह । तथा च नेति यद् यत्र संशयस्य
Jain Education International
२०५
,
१ कान्तिकत्वं परिहृतम् D. ed. । अयमपपाठ इति ध्येयम् ॥ २ वैशेषिका एव केचित् ( ? ) ॥ ३ ययोर्ध्वत्वं स्थाणुपुरुषसम्बन्धि अनुवृत्तिद्वारेणैवं श्रावणत्वं द्रव्यादिपदार्थसम्बन्धि व्यावृत्तिद्वारेण ( ? ) । ४ दृश्यतां पृ० १९९ दि० ११ ॥ ५ प्रतीकोयं मूले न दृश्यते ॥
80
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360