Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 247
________________ सप्तमं परिशिष्टम् । अपि चेत्यादिनाभ्युपगमबाधामाह। शास्त्र उक्तम्-' सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु प्रत्यक्षम , द्रव्येषु द्रव्यगुणकर्मापेक्षम् ' इति । अत्र सामान्यवचनेन महासामान्य सत्ता गृह्यते, विशेषवचनेन द्रव्यत्वादीनि शेषसामान्यानि । सामान्यं विशेष इत्येतच्चापेक्षाकृतम् । तस्मादेतानि सामान्यानि विशेषशब्दवाच्यानि । सत्ता सामान्यमेव, न विशेषः । शेषाणि सामान्यानि विशेषाश्चापेक्षया भवन्ति । तत्र सामान्यापेक्षं द्रव्ये सद् 5 द्रव्यमिति । विशेषापेक्षं द्रव्यं पृथिवी घट इत्यादि । द्रव्यगुणकर्मापेक्षं दण्डी शुक्लो गच्छतीति । कस्मान्न युज्यत इति चेदुच्यते - यस्मादित्यादि । स्वार्थमात्रग्राहित्वात्येतद् विषयालोचनार्थत्वादित्यस्य विवरणम् । सन्धानं योजनम् । तत्स्वरूपं दर्शयति-- इदमस्येत्यादि । अवश्य मिति, अन्यथा यद् विशेषणं विशेष्यं चागृहीतं तयोर्योगोऽपि न क्रियते । तच्चैवं गृहीतं भवतीत्याशयः। मतुब्लोपादभेदोपचाराद्वेति यथासम्भवं 10 द्रष्टव्यम् । तथाहि-गुणवचनेभ्यो मतुपो लुक् । अभेदोपचारश्च सर्वत्र नास्ति, यस्मात् क्रिया-द्रव्यरूपेणाश्रयप्रतीतिर्नास्ति । मतुप्पत्ययार्थो यत्र गम्यते तत्रैव मतुब्लोपेनापि लक्ष्यते । यदीन्द्रियबुद्धौ तन्नोपपद्यते क तर्हि [ उपपद्यते ] इति चेदुच्यते-तचेत्यादि । पूर्व विशेषणं विशेष्यं च गृहीत्वा लोकव्यवस्था चानुस्मृत्य अनुसन्धानं कर्तुं शक्यते, नान्यथा। तद। चेन्द्रियज्ञानं चिरनिरुद्धमिति स्मृत्यैवोपस्थाप्य विशेषणं मनसैव योज्यते । 15 तस्मात् तत्रैव तदुपपद्यते । अन्यथेति यदि विशेषणस्य स्मृत्युपस्थापितत्वं नेष्यते । तदनेन · विशेषापेक्षं ज्ञानं तदप्रत्यक्षं मानसमेत्र वा, यथा सुरभि मधुरमिति ज्ञानम् , गौर्गच्छतीत्यपि यथोक्तपकारम् ' इति व्यापकविरोधो द्वितीयसाध्यापेक्षया स्वभावश्चोक्तः। न च युज्यत इति दृष्टान्ते साध्यवैकल्याशङ्कां निराकरोति । भिन्नेन्द्रियग्राह्यत्वादिति गन्धरसयोणिरसनग्राह्यत्वाद् द्रव्यस्य च चक्षुःस्पर्शनग्राह्यत्वात् । तत एवमुक्तं भवति- 20 यद् भिन्नेन्द्रियग्रायविशेषणविशेष्यविषयं ज्ञानं तदप्रत्यक्षं तद् मानसमेव वा, यथा रूपमाम्लमिति ज्ञानम् , सुरभि मधुरमित्येतज्ज्ञानमपि तथेति पूर्ववतुभेदो योज्यः । इदानीं द्रव्यमेव न किञ्चिदप्यस्ति रूपादिसमुदाये तदुपचारात् , तत् कुतस्तत्र प्रत्यक्षं स्यादिति द्रव्यवि वारणामारभते-यदि चेत्यादि । अयमस्यार्थः-यदने केन्द्रियग्राह्य तद् नैक रूपादिवत् , द्रव्यमपि तथेति व्यापकविरोधप्रसङ्गः । द्रव्यस्याने केन्द्रिय- 25 ग्राह्यत्वं · दृश्यं स्पृश्यं च द्रव्यम् ' इत्यभ्युपगमात् । रूपाद्यभेदो वेत्येवं दर्शयति १ " सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । द्रव्ये द्रव्यगुणकर्मापेक्षम् । "-वै० सू० ८।६, ७ ॥ २३ Jain Education International For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360