________________
सप्तमं परिशिष्टम् । अपि चेत्यादिनाभ्युपगमबाधामाह। शास्त्र उक्तम्-' सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु प्रत्यक्षम , द्रव्येषु द्रव्यगुणकर्मापेक्षम् ' इति । अत्र सामान्यवचनेन महासामान्य सत्ता गृह्यते, विशेषवचनेन द्रव्यत्वादीनि शेषसामान्यानि । सामान्यं विशेष इत्येतच्चापेक्षाकृतम् । तस्मादेतानि सामान्यानि विशेषशब्दवाच्यानि । सत्ता सामान्यमेव, न विशेषः । शेषाणि सामान्यानि विशेषाश्चापेक्षया भवन्ति । तत्र सामान्यापेक्षं द्रव्ये सद् 5 द्रव्यमिति । विशेषापेक्षं द्रव्यं पृथिवी घट इत्यादि । द्रव्यगुणकर्मापेक्षं दण्डी शुक्लो गच्छतीति । कस्मान्न युज्यत इति चेदुच्यते - यस्मादित्यादि । स्वार्थमात्रग्राहित्वात्येतद् विषयालोचनार्थत्वादित्यस्य विवरणम् । सन्धानं योजनम् । तत्स्वरूपं दर्शयति-- इदमस्येत्यादि । अवश्य मिति, अन्यथा यद् विशेषणं विशेष्यं चागृहीतं तयोर्योगोऽपि न क्रियते । तच्चैवं गृहीतं भवतीत्याशयः। मतुब्लोपादभेदोपचाराद्वेति यथासम्भवं 10 द्रष्टव्यम् । तथाहि-गुणवचनेभ्यो मतुपो लुक् । अभेदोपचारश्च सर्वत्र नास्ति, यस्मात् क्रिया-द्रव्यरूपेणाश्रयप्रतीतिर्नास्ति । मतुप्पत्ययार्थो यत्र गम्यते तत्रैव मतुब्लोपेनापि लक्ष्यते । यदीन्द्रियबुद्धौ तन्नोपपद्यते क तर्हि [ उपपद्यते ] इति चेदुच्यते-तचेत्यादि । पूर्व विशेषणं विशेष्यं च गृहीत्वा लोकव्यवस्था चानुस्मृत्य अनुसन्धानं कर्तुं शक्यते, नान्यथा। तद। चेन्द्रियज्ञानं चिरनिरुद्धमिति स्मृत्यैवोपस्थाप्य विशेषणं मनसैव योज्यते । 15 तस्मात् तत्रैव तदुपपद्यते । अन्यथेति यदि विशेषणस्य स्मृत्युपस्थापितत्वं नेष्यते । तदनेन · विशेषापेक्षं ज्ञानं तदप्रत्यक्षं मानसमेत्र वा, यथा सुरभि मधुरमिति ज्ञानम् , गौर्गच्छतीत्यपि यथोक्तपकारम् ' इति व्यापकविरोधो द्वितीयसाध्यापेक्षया स्वभावश्चोक्तः। न च युज्यत इति दृष्टान्ते साध्यवैकल्याशङ्कां निराकरोति । भिन्नेन्द्रियग्राह्यत्वादिति गन्धरसयोणिरसनग्राह्यत्वाद् द्रव्यस्य च चक्षुःस्पर्शनग्राह्यत्वात् । तत एवमुक्तं भवति- 20 यद् भिन्नेन्द्रियग्रायविशेषणविशेष्यविषयं ज्ञानं तदप्रत्यक्षं तद् मानसमेव वा, यथा रूपमाम्लमिति ज्ञानम् , सुरभि मधुरमित्येतज्ज्ञानमपि तथेति पूर्ववतुभेदो योज्यः ।
इदानीं द्रव्यमेव न किञ्चिदप्यस्ति रूपादिसमुदाये तदुपचारात् , तत् कुतस्तत्र प्रत्यक्षं स्यादिति द्रव्यवि वारणामारभते-यदि चेत्यादि । अयमस्यार्थः-यदने केन्द्रियग्राह्य तद् नैक रूपादिवत् , द्रव्यमपि तथेति व्यापकविरोधप्रसङ्गः । द्रव्यस्याने केन्द्रिय- 25 ग्राह्यत्वं · दृश्यं स्पृश्यं च द्रव्यम् ' इत्यभ्युपगमात् । रूपाद्यभेदो वेत्येवं दर्शयति
१ " सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । द्रव्ये द्रव्यगुणकर्मापेक्षम् । "-वै० सू० ८।६, ७ ॥
२३
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org