________________
१७६ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । इत्युक्तत्वात् , एवं " भूतार्थसम्बन्धवशेन · अयमेवंभूतः ' इति प्रत्यक्षमुत्पद्यते " [ ] इत्युक्तत्वात् , एवं " येयमिन्द्रियाणामर्थेषु प्रसिद्धिः-अयं शब्दः, इदं रूपम् , अयं रसः, अयं गन्धः, अयं स्पर्श इति " [ ] इत्यप्युक्तत्वात् । यतः
प्रत्यक्षं निश्चयात्मकं परेणेष्यते । इयमेव च निश्चयानां स्वार्थप्रतिपत्तिर्यत् तनिश्चयनम् । 5 तद् यदि प्रकारान्तरवद् न निश्चीयते तैः कथं गृहीतम् ! कथमिदानी भवतोऽपि प्रत्य
क्षेणानिश्चयनं तत्र च ग्रहणमिति चेत् , यस्य प्रत्यक्षं न निश्चयात्मकं तस्य यद् ग्रहणं तद् न निश्चयेन, किं तर्हि ? तदाभासेन । ततो निश्चयानिश्चयवशाद् न प्रत्यक्षस्य ग्रहणाग्रहणे। निश्चयस्य हि नैवंविधम्-किञ्चिनिश्चितमप्यन्यदनिश्चितमिति ग्रहणाग्रहणे ।
तस्माद् यो निश्चयस्त देवास्य ग्रहणम् । अन्यथै कस्मिन्नपि प्रकारे तद् न स्यात् । सर्वा10 त्मना ग्रहणेऽप्येवं निश्चयः किं न भवतीति चेत् , सहकारिवैकल्यात् । अनुभवो हि
यथाविकल्पाभ्यासं निश्चयान् जनयति, यथा रूपदर्शनेऽविशेषेऽपि कुणप-कामिनी भक्ष्य. विकल्पाः । तत्र बुद्धिवेशद्य-तद्वासनाभ्यास-प्रकरणादीन्यनुभवे निश्चयोत्पत्तिकारणानि । तेषामेव तारतम्यादिवशात् पौर्वापर्यम् । यथा जनकपाठकत्वाविशेषेऽपि पितरं दृष्ट्वा मम
पिताऽऽगच्छतीति पूर्व निश्चयो भवति, नोपाध्याय आगच्छतीति । स च भूत निश्चयो 15 व्यभिचारनिमित्ताभावे भवति । ततोऽनुभव इत्येव न सर्वथा निश्चयः । यदि परेण प्रत्यक्षं
सविकल्पकमिष्यते कथं 'विषयालोचनमात्रार्थ हि चतुष्टयसन्निकर्षाजायते' इत्येतदुक्तमिति चेत् , इन्द्रियज्ञानस्य निर्विकल्पकत्वं प्रमाणेन सिद्धमिति वस्तुसामर्थ्यांदाचार्येण तथोक्तम् । अस्माभिस्तु पराभ्युपगमवशादेवमुक्तमित्यविरोधः। यदि परेण प्रत्यक्ष निश्चयात्मकमित्यभ्युपगम्यते प्रत्यक्षेण निर्णय यस्य तुल्योत्पत्तिरित्येतत् कथं युज्यते ! 20 न हि तेनैव तस्य तुल्योत्पत्तिरित्यभ्युपगमो युक्त इति चेत् , इदं तस्य दोषान्तरं य
एवमिच्छतीत्यलमतिप्रसङ्गेन ।
. विषय भेदोऽपीति प्रमाणस्यात्ममनोविषयत्वात् फलस्यार्थविषयत्वात् । ननु ज्ञानमप्यात्मसमवायित्वात् तद्विषयमेवेति चेत् , नैतत् , यस्माज्ज्ञानस्य ज्ञेयं विषयत्वेनाभिल.
प्यते न समवायिकारणम् , अन्यथा सर्वं ज्ञानमे कविषयं स्यात् । आत्ममनःसन्निकर्ष25 स्यानुपलब्धौ तत्समवायिकारणेऽन्यः को विषयो भवेदित्यनुत्तरमेतत् । विषयभेदे को
दोष इत्याह-नेत्यादि ।
१ दृश्यतां वै० सू० ३ । १। २॥ २ दृश्यतां पृ० १७० पं० ३ ॥ ३ कारणादन्यः (१) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.