________________
सप्तमं परिशिष्टम् ।
१७५
-
वशेन ' अयमेवंभूतोऽर्थः ' इति प्रत्यक्षमुत्पद्यते तथा भूतार्थसम्बन्धवशेन अयमेव, नान्यः' इति निर्णयो जायते इत्यस्य निष्पत्तिः प्रत्यक्षेण तुल्या - इति यदुक्तं तद् विरुध्यते, निर्णयस्य विकल्पपूर्वकत्वादिति सम्बन्धः । सामान्यदर्शनवतः संशयो जायते । विकल्पाद् यदा विशेषरूपेणार्थोऽवधार्यते तदा ' इयं गौरेव, न महिषी ' इति निर्णयो जायते ! विषयालोचनार्थत्वादिति विषयानुभवप्रयोजनत्वादित्यर्थः । विषया- 5 लोचनमात्रार्थं हीति 'मात्र' शब्दोऽधिकव्यवच्छेदार्थः । एवमुक्तं भवति - विशेषारोपादौ न व्याप्रियत इति । तच्च निर्विकल्पकत्वात् | यस्य च विषयानुभवमात्रं प्रयोजनं तद् विकल्पनिरपेक्षं प्रवर्तते । तद् दर्शयति तत्र विचारणा कुत इति । ततश्च वैधर्म्यात् तेन निर्णयस्योत्पत्तिर्न तुझ्या यथानुमानेन । स्यादेतत्-भूतार्थसम्बन्धवशादुत्पत्तिमात्रस्यातिदेश इति । तदयुक्तम्, विशेषातिदेशस्य निरर्थकत्वप्रसङ्गात् । संशयानुमानादि- 10 भिरप्येवं तुल्योत्पत्तिः प्राप्नोति तेषामपि सामान्यः दिभूतार्थाभिसम्बन्धवशेनोत्पत्तेः । अतिदेशो नास्त्येवेति, ज्ञानत्वं समानो धर्मः, तस्य चाभावात् । सर्वथा ग्रहणप्रसङ्ग इति सर्वथा बहुमवादिभिरपि ग्रहणं स्यात् । यस्मिन्नंशे सामर्थ्यं स एव गृह्यत इति चेदुच्यते - सर्वात्मनेत्यादि । निरंशत्वादर्थस्य यथायोगं पञ्चविधेन सन्निकर्षेण य इन्द्रियासन्निकृष्टोऽशः स नास्त्येव । ततश्च तद्विशेषाणामर्थादभिन्नत्वात् तेष्वपि ग्रहणमुत्पत्तुं 15 शक्नोति । ननु य एव जिवृक्षितोंऽशः स एव गृह्यत इति चेदाह - किमेतदित्यादि । यदा परेषां द्रष्टा आलोच्यार्थदर्शनात् प्रागेव किमेतत् ' इत्यविशेषेण ग्रहीतुमिच्छायां तत्र प्रतीत्य पश्यति तदायं दोषो भवति ।
1
:
6
सम्बन्ववादे चैतद्दोषाभिधानेनायमर्थतो ज्ञानवादेऽप्युक्त एव भवति । तथाहिसन्निकर्षोऽर्थग्रहणस्य कारणमित्ययं दोष उच्यते, ज्ञानपमाणवादिनापि स एव 20 ज्ञानकारणमिष्यते इति समानो दोषः । तथाहि - अयमेव दोषोऽनुमाने वक्ष्यते । यदीन्द्रियार्थसम्बन्धे सर्वात्मना ग्रहणप्रसङ्गस्तदा भवतोऽपि त्रिभिरिन्द्रियैः सम्बध्यमाने विषये कस्मान्न सर्वात्मता ग्रहणमिति चेत्, अस्माभिः सन्निकर्षस्तत्कारणं नेष्यते, तस्याद्रव्यसत्त्वात् । किञ्च, अस्माभिश्चक्षुरादिनाप्यर्थः सर्वथा गृह्यते इतीष्यते । तग्रहणेऽपि तथा व्यभिचारनिमित्तसद्भावात् कस्मिंश्चिदंशे निर्णयो न भवतीति भेदायोग्यत्वात् 25 तदप्रणतुल्यं केवलमित्येतदुक्तम् । यदि च परोऽप्येवं ब्रूयात् तत एवं वक्तुं नार्हति, " यदर्थेषु साक्षादालोचनम् ' अयं गौरव अयमश्व एव ' इति तत् प्रत्यक्षम् " [ 1 १ ( बाहुमत्त्वादिभिरपि १ ) ( बाहुल्यादिभिरपि ? ) ॥ २ तुलना पृ० ७३ पं० ३ ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org