________________
१७८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । रूपादावपि भेदव्यवस्थाकारणमनेकेन्द्रियग्राह्यत्वम् , यदि चैवमपि द्रव्ये मेदो नेष्यते रूपादिष्वपि स न स्यादिति । ग्राहकभेदाद् रूपादीनामनेकत्वं व्यवस्थाप्यत इति चेत् , भवतु, ततश्चास्माभिर्भिन्नेन्द्रियग्राह्यत्वादेव भेद इति नावधार्यते। किञ्च, भिन्नेन्द्रियमानत्वेन ग्राहकभेदोऽप्याक्षिप्त एव, भिन्नेन्द्रियग्राह्यत्वेऽवश्यं ग्राहकभेदो भवितुमर्हति । ननु द्रव्ये 5 सत्यपि भिन्नेन्द्रियग्राह्यत्वे ग्राहकभेदो न भवतीति चेत् , न, तस्यैव द्रव्यस्य विचार्यमाणत्वाद् रूपादिष्वपि पर्यनुयोगस्य तुल्यत्वाच्च । दृष्टं चेदित्यादिना द्रव्यस्यैकत्वं प्रत्यक्षसिद्धं रूपादीनां चानेकत्वम् , ततः कथं तदनुमानेनान्यथा कर्तुं शक्यते इति दर्शयति । सत्चागुणत्ववदित्यनेन सत्ता-गुणत्वाभ्यामनेकान्तमाह । सत्तागुणत्वयोराश्रयो
रूपादीनि सर्वेन्द्रियाणि । तस्मात् तयोरपि सर्वेन्द्रियत्वम् । यथोक्तम्-~~" एतेन गुणत्वे 10 भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् " [वै० सू० ४ । १ । १४ ] इति । अभिन्नं
ज्ञानं पुनः · यमेवाहमद्राक्षं तमेव स्पृशामि' इति । नेन्द्रियेण तदित्युत्तरम् । अक्षानेकत्ववैयादिति अक्षानेकत्वकल्पनायां निमित्ताभावादित्यर्थः । एकेनेन्द्रियेणानेकोऽर्थः समस्तः प्रतिपत्तुं न शक्यत इति इन्द्रियान्तरं परिकल्प्यते । यदि चेन्द्रियान्तरार्थेऽपि
प्रवर्ततेऽनेकेन्द्रियकल्पना निर्निमित्ता स्यात् । एवमुक्तं भवति-कार्यभेदेनेन्द्रिय भेदः 15 कल्प्यते । यदीन्द्रियकार्यमप्येकेनैव क्रियत इन्द्रियान्तरे प्रमाणं नास्तीति तन्न कल्पनीयं
स्यादिति । व्यथेति निर्निमित्तेत्यर्थः । अथापि स्थादित्येवं मन्यते-अनेकेनेन्द्रियेणै. कोऽर्थः परिच्छेत्तुं शक्यते, नैकेनानेकोऽर्थः । रूपादयश्चानेके । तस्मादिन्द्रियबहुस्वकल्पनावैयर्थ्याभाव इति चेत् , स्वार्थे भिन्नेऽपीत्यादि । यद्ये कमिन्द्रियमिन्द्रियान्त
रार्थेऽपि प्रवर्तते ततः स सर्व एव तस्य स्वार्थः स्यात् । स्वार्थे च भिन्नेऽपि नीलादिवत् 20 तत् शक्तिमदेवेत्यनुसरम् । सङ्ख्यादिभेदेन चेति “ संख्या परिमाणानि पृथक्त्वं
संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाचाक्षुषाणि" [वै० सू० ४ । १ । १२ ] इति सिद्धान्तात् । नेन्द्रियान्तरार्थ इति, एतेन 'यश्चक्षुरिन्द्रियार्थस्तत्र त्वगिन्द्रियमशक्तिमत् , रूपादिवत् , द्रव्यमपि तथा' इति व्यापक विरोधप्रसञ्जनम् । इन्द्रि
यान्तरविषयत्वेन चेत्यादि रूपस्पर्शी मेदे सत्यपि यावद् भिन्नेन्द्रियेण न प्रतीयेते 25 तावज्ज्ञातुं न शक्यते। यदि चैकेनेन्द्रियेण गृह्यते तदा यथा नीलादीनां चक्षुर्गोचर२स्वेनाभेदस्तथा रूपस्पर्शयोरपि स्यात् । ततश्च स्पर्शोऽपि चक्षुषा गृह्येत । यतश्चक्षुषा
न गृह्यते इति भेदकृतस्येन्द्रियान्तरेण ग्रहणस्याभावं दर्शयति । तदनेन — यत्र स्पर्शनेन्द्रियं शक्तिमत् स न चक्षुरिन्द्रियार्थः, स्पर्शवत् , द्रव्येऽपि स्पर्शनेन्द्रियं शक्तिमत्'
१ ' भवेत् ' इत्यपि पाठः स्यादत्र । ऽग्युर् मोद् VT. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org