________________
सप्तमं परिशिष्टम् ।
१७९ इति व्यापकविरोधप्रसङ्ग माह । अस्यैव साध्यविपर्ययेऽनिष्टप्रसङ्गमाह-तद् यदीत्यादि । यदि च चक्षुषा स्पर्शनग्राह्यमपि द्रव्यं गृह्यते इतीप्यते तदेन्द्रियान्तरार्थोऽपि चक्षुषः स्वार्थ इत्यभ्युपगतं स्याद् द्रव्यवत् । ततश्च स्वार्थत्वात् स स्पर्शरसादिभेदेन भिन्नोऽपि नीलादिवच्चक्षुषा गृह्यत इत्यतो भिन्नत्वमने केन्द्रियग्राह्यत्वे न कारणम् अनेकेन्द्रियः । कल्पनाया न कारणमित्यर्थः । यतः स्वार्थो भिन्नोऽप्येकेनैवेन्द्रियेण परिच्छिद्यते, ततो 5 रूपादयो भिन्नत्वादनेकेन्द्रियग्राह्या इति यदुक्तं तन्न युज्यते । किं तर्हि ? इन्द्रिया. न्तरार्थाग्रहणमिति अने केन्द्रियत्वे कारणमिति सम्बन्धः । यस्माद् यदीन्द्रियान्तरार्थ इन्द्रियान्तरेण प्रहीतुं न शक्यते तथा सत्यने कमिन्द्रियं कल्पयितुं शक्यते इति दर्शितं तस्मादेवमनेकेन्द्रियपाह्यं द्रव्यं नास्तीति स्थितम् ।
पुनरप्येतदेव द्योतयितुमनेकेन्द्रियद्रव्याभ्युपगमेऽभ्युपगम वाधा प्राप्नोतीति दर्शयितु- 10 माह-यदि चेत्यादि । यद्यभिन्नोऽर्थोऽनेकेनेन्द्रियेण गृह्यते तत इन्द्रियाणि स्वविषयनियतानि न स्युः । ततश्च रूपादयः सर्वेन्द्रियग्राह्याः प्रत्येकमपि स्युर्द्रव्यवत् । सर्वेन्द्रियग्राह्यवचनं चात्रै केन्द्रियग्राह्यत्वनियमं निराकरोति । यदाह-तथा[च ] रूपादयोऽनेकेन्द्रियग्राह्याः स्युरिति नियमेन केन्द्रियग्रा ह्या न स्युरित्यर्थः ।
स्वविशेषे नियामका इति स्वविशेषे नियामका इन्द्रियबुद्धी नामिति सम्बध्यते । 15 द्रव्यसङ्ख्यादिकमस्त्रिति आदिवचनाद् भाव-गुणत्व-पृथक्त्वादीनि ग्राह्याणि । न स्यादित्यादि द्रव्यस्य स्पर्शनचक्षुभ्यां ग्रहणं न स्यात् शेषाणां चक्षुषेति योज्यम् । यद्येवमित्यन्यथा नियामकत्वमाह । तथा चेत्यस्मिन् पक्षे सोऽअन्तरोक्तो दोषो न वर्तत इति दर्शयति । यस्य यत्र नियामकं कारणं नास्ति तत् तत्रानियतम् , यथा यदृच्छामात्रेण प्रवृत्ता डिस्थादिसंज्ञाः क्वचिदर्थे, इन्द्रियाणामपि द्रव्यादिषु नियामकं कारणं नास्तीति 20 कारणाभावः। सूत्रविरोध इत्यभ्युपगमविरोधमाह । युक्त्यापीत्यादिना · योऽभावः स न क्रियते, आकाशपुष्पवत् , इन्द्रियान्तरेणाग्रहणमप्यभावः' इति व्यापकविरोधः । अन्ये तु सूत्रमन्यथा वर्णयन्ति-'तद् 'वचनेन स्वविशेषरहितं विशेषान्तरमभिमतम् , तदभावात् स्वर्शवाद्यभावाद् रूपे चक्षुरिन्द्रियं प्रवर्तते, ततश्च स्पर्शवाद्यभारेन रूपत्वसद्भावो लक्ष्यते। इन्द्रियान्तरेणाग्रहणमव्यभिचार इति । तदपि युक्त्यापीत्यादिनैव 25 निराकर्तव्यम् । युक्त्यानुविहितत्वे एवमुक्तिः शोभेत । युक्तिविरोधे तु कृच्छ कल्पना
१ एवं रूपादयः...' इत्यपि पाठः स्यादन ॥ २ ' स्वभेदे' इत्यपि पाठः स्यादव । रङ् गि ख्यद् पर् ल VT. ॥ ३ ' एवं तर्हि ' इति ' नन्वेवम् ' इति वा पाठोऽपि भवेत् ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org