________________
१८० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । अकल्पनैव । किञ्च, स्वविशेषाणां प्रकृतत्वात् तेषामेव ग्रहणं युक्तं न विशेषान्तराणामप्रकृतत्वात् । तदभावेन च भावोपादानमयुक्तमित्यसारमेतत् । पूर्वस्मिन् व्याख्याने नायं दोषः । यत्र यत्य कारणाभावः स तत्र न भवतीति युक्तं यदुक्तं भववित्यादि । यद्येवं
द्रव्याभावे यमइमद्राक्षं तमेव स्पृशामीत्यस्याभिन्नज्ञानस्य को विषयः ! इदं निर्विषयमेवेति 5 च वक्तुं न शक्यते, विषयादिनियमेनोत्पतेः, अभिमतप्रत्यक्षवदिति मत्वाह--ननु
यदित्यादि । अन्यगोचरमित्यादि । द्रव्यादन्यः कल्पित एवास्य विषय इति दर्शयति । भिन्नो विषय इत्यादि रूपं स्पर्शश्च। परस्पर विपरीत विषयोपलब्धियोगात् तज्जायते ततो यद्यपि कल्पितविषयं तथापि रूपाद्युपलब्धिसद्भावे तद्भावात् मरीचिकादिजलज्ञानवत्
विषयादिनियमेनैव तज्जायते इति द्योतयति । तत्सह चारिसमुदायविषयमिति, चक्षुः 10 स्पर्शनाभ्यामुपलब्धो भिन्नो विषयः स सहचार्यस्येति तद्गुण संविज्ञानो बहुव्रीहिः । पुनरपि
तत्सहचारी समुदायो विषयोऽस्येति बहुव्रीहिरेव । एवं रूस्पर्शयोः सहचारस्योपलक्षणत्वे च गन्धादिमात्रविषयत्वं नोक्तं भवति । स्मरण मेवाभिन्नं ज्ञानमिति रूपादिषु येष्वनुभवपूर्वको 'घटः ' इति सङ्केतस्तत्समुदाये पुनरुत्तर कालं रूपस्पर्शोपलब्धियोजकं स्मरणं
' स एवायं घटः' इत्यभिन्नं ज्ञानमुपजायते । समुदायोऽवस्तुत्वात् केनचिदपि ज्ञानेन 15 नानुभूयते, ततः कथं तत्र स्मरणमिति यो वदति तस्येदं न चोद्यम् । यस्मात् समुदायः
कल्पितः, यश्च कलिमतो भावः स विज्ञानस्य प्रायांशत्येनात्मभूत इ ते स्वसं वित्त्यैवानुभूतः । अन्यथा कथं सैवेयं महती प्रासादमालेति स्मरणं भवेत् । कुन एतत् समुदायविषयं न पुनर्वस्तुसद्घटादि विषयमिति चेत् , उच्यते-रूपायग्रहे तबुद्ध्य भावादिति । यद्
यदग्रहे उपलब्धिलक्षण प्राप्तं नोपलभ्यते तत् ततो भिन्नं नास्ति, वृक्षादिभ्यः षण्णगरीवत् 20 प्रासादमालावद्वा । घटादिद्रव्यमपि रूपाद्यग्रहे उपलब्धिलक्षणपाप्तं नोपलभ्यते इति स्व.
भावानुपलब्धिमाह । यत्रालोकः समन्ताद् गृह्यते तत्र रूपं द्रष्टुभयोग्यमेव, आलोकाभावेऽपि कैश्चित् प्राणिभिस्तद्ग्रहणात् तेन नानेकान्तः । एवं विशेष्याणीत्यादि, सत्ता-गुणत्वाभ्यां पूर्वमनेकान्त उक्तः, तत्परिहारायोपन्यत्यति । विशेष्याणि रूपादीनि, तानि भिन्नानि
'सन् गुणः' इत्यनेन विशेषणेनासम्बद्धान्येव उपलब्बपूर्विणस्ततोऽर्थान्तरव्यवच्छेद25 विषयम् असतोऽगुणाच्च व्यावृत्तिलक्षणं यत् सामान्यं तद्विषयमिति यावत् । अभेदेन
सर्वत्रेति मानसं ज्ञानं सामान्याकारानुनद्धम् , तत् तेषां भेदं सन्तमपि संवृत्य स्वाकारमभिन्नमपि एषु अध्यवस्यति । एकत्व मिव अ.गृहत् तेष्वभेदेन तत् सर्वत्रोपजायते नैक
१ भवेदित्यादि' इत्यपि पाठोऽत्र स्यात् । ऽग्युर् मोद् चेस् प० ल° सोग्स् प VT.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org