________________
सप्तमं परिशिष्टम् ।
स्मिन्नेव । न तु सत्तागुणत्वे प्रत्यक्षे इत्यतो नानेकान्त इत्याशयः । तदनुपलक्षणादिति पूर्वमनुभवज्ञानं भिन्नवस्तुविषयम्, ततस्तत्पूर्वकं सामान्यज्ञानमित्येतद्विशेषानुपलक्षणात् ।
5
तुल्यगोचरतेष्टा चेदिति अनैकान्तिकत्वं ग्राहयितुमुपन्यासः । गोचरसाम्ये हेतु - माह - तदग्रहे तदुद्ध्यभावादिति विशेषणाग्रहणे विशेष्ये बुद्धिर्न वर्तत इत्यर्थः । ततश्च रूपादीनां विशेष्याणां सर्वेन्द्रियत्वात् तद्विशेषणयोः सत्तागुणत्वयो: सर्वेन्द्रियत्वं सिद्धं । ये विशेषणविशेष्यभूतास्ते तुल्येन्द्रियविषयाः, यथा दण्डदण्डिनौ, सत्ता-तद्वन्तः गुणत्वतद्वन्तश्च तथेति स्वभावप्रतिरूपकः । अनिष्टे प्रसज्यते इति प्रसङ्गविपर्ययेणानैकान्तिकत्वमाह । द्रव्यवन्तीत्यादि द्रव्यमाश्रयोऽस्त्येषामिति द्रव्यवन्ति । अत्र द्रव्ययोगेन गुणो विशेष्यम्, द्रव्यं विशेषणम् । ततश्च यथा गुणः पञ्चेन्द्रिय एवं द्रव्यमपि स्यात् । एवमेकद्रव्यत्वादित्यादि । द्रव्यमद्रव्यमनेकद्रव्यं चेष्यते, एकद्रव्यं द्रव्यं नास्ति | 10 तत्राद्रव्यं द्रव्यं यत्र द्रव्यान्तमाधारो नास्ति, यथा परमाण्वाकाशादि । अनेकद्रव्यं यत्रानेकद्रव्यमाधारः, यथा घटः । स ह्यनेकसमवेतः । अत्र च एकद्रव्यं सतायाः सर्वेन्द्रियायाः विशेषणमिति द्रव्यमपि सर्वेन्द्रियं स्यात् । न चेष्यते । तस्मादनैकान्तिकः । द्रव्यवृत्तित्वादित्यादि । द्रव्यवृत्तिर्या सत्ता तस्या एकद्रव्यं विशेषणम् इयं च न सर्वेन्द्रिया, किं तर्हि ? गुणवृत्तिः । ततो नायं प्रसङ्गः । कुतोऽभिन्ना सत्तेयं द्रव्यादौ सति न निषि- 15 ध्यते, न मिन्नेति चेदाह - तथोक्तमित्यादि । सत्ताया द्रव्यस्वभावे निषिद्धे ततो गुणः कर्म च स्यादित्याशङ्कां निराकर्तुमेतदुच्यते -" गुणकर्मसु च भावान्न कर्म न गुणः [ वै० सू० १ | २ | १० ] इति । अतः प्रकृत एव सत्ताधर्मः ' च 'शब्देन समुच्चीयते । अन्यथा समुच्चयाय च युज्यते द्रव्ये वृत्तेरपि गुणकर्मस्ववृतेर्गुणकर्मस्वभावः निराकृतो न स्यात् । यदि चेत्यादि, यद्ययं विरुद्धवर्माध्यास इष्यते ततो भेदः स्यात् । 20 ततश्च सोऽनन्तरोको दोषोऽत्र स्यात् । इदं च सूत्रं विरुध्यते – “ सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः " [ वै० सू० १ । २ । १८ ] इत्याशयः । यदा चेत्यादि, यदेदं चक्षुषा दृष्ट्वा ' उष्णोऽयमग्निः ' इति ग्रहणं ततस्तदा स्पर्शोऽप्यग्निविशेषणत्वाच्चाक्षुषः स्यात् । तथा च नेति । ततश्चानेकान्तः ।
"
"9
१८१
Jain Education International
0
१ ग्ान् दु° न ं ब्स्दु ँ बsि छेद् दु° यङ् रिंग्स सो। ज़ेस् ऽजुग् प लस्° क्यङ् । 25 योन् तन् दछ् लम् नेम्स् मिजुग् प° लस् | योन्° तन् द° लस् र्नम्स् २° योद् मिन्° गूफ़्ल् ( बूसल् ? ) बर् मि° ऽग्युर् रो VT. । अत्र भोटभाषानुवादे किञ्चिदशुद्धमिव प्रतीयते ॥
For Private & Personal Use Only
•
www.jainelibrary.org