________________
सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा ।
दृष्ट इत्यनेन अर्थापत्तिसमां जातिमुपन्यस्यति, विनापीत्यादिना नीलादिषु भिन्नेवपि इन्द्रियभेदाभावदर्शनेन वृक्ष चैतन्ये स्वापवद् द्वितीयामुपलब्धिसमां ग्रहण भेदादिति च हेत्वन्तरोपदर्शनात् । आद्याम् अन्यथोक्तमित्यादिना अर्थापत्तिसमां निरस्यति । स्यादेतत् - अनेकान्त इत्यनेन हेतुव्यभिवारो नोच्यते, किं तर्हि ? प्रतिज्ञादोषः । यस्माद् 5 भवता भिन्नेन्द्रियग्राह्यत्वादेवेत्यवधारणेन हेत्वन्तरं नास्तीति प्रतिज्ञायते तच्च न युज्यते हेत्वन्तरस्यापि सद्भावादित्यत आह-नेत्यादि । अत्र च नानैकान्तिक इति ऐकान्तिकोऽयमव्यभिचारीत्यर्थः ।
"
१८२
सर्व साध्यमित्यादिना उपलब्धि [समां] द्वितीयां निराकरोति, बुद्धिभेदोऽप्यन्यस्वस्येत्यादिना हेत्वन्तरस्यापि साध्यवृत्तिदर्शनेन साव्यभिचारदर्शनादाद्याम् ।
10
मेदोsन्यथा कुत इत्यादिना ग्रहणभेदात् केवलादन्यथा इन्द्रियभेदे ग्रहण भेदे च सति अमेदो नास्त्येवेति यावत् । यत्र चेत्यादिना यदि केवलाद् ग्रहण भेदाद् नीलादिषु भेद: तथा सति यत्रेन्द्रियमेदो मँहणभेदश्व स्तस्तत्र सुतरां भेदः सिध्यति, इन्द्रियभेदेऽभेदाशङ्काऽभावादिति दर्शयति ।
"
१ " अर्थापत्तित: प्रतिपक्षसिद्धेरर्थापत्तिसमः । ५ । १ । २१ । अनित्यः शब्दः प्रयत्नानन्तरीय 15 कत्वाद् घटवदिति स्थापिते पक्षेऽर्थापत्त्या प्रतिपक्ष साधयतोऽर्थापत्तिसमः । यदि प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति अर्थादापद्यते नित्यसाधर्म्यान्नित्य इति । अस्ति चास्य नित्येन साधर्म्यस्पर्शत्वमिति । —- न्यायभाष्य. ५ । १ । २१ ॥ २ “ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः । ५ । १ । २७ ॥ निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते निर्दिष्टस्य साधनस्याभावेऽपि साध्यधर्मोपलव्ध्या प्रत्यव - 20 स्थानमुपलब्धिसमः । " - न्यायभाष्य. ५ । १ । २७ ॥ ३ “ अस्य [ = अर्थापत्तिसमस्य ] उत्तरम् - अतुतस्यार्थापत्तेः पञ्चहानेरुपपत्तिरनुकः वादनैकान्तिकत्वाचार्थापत्तेः । ५ । १ । २२ । अनुपपाय सामर्थ्य - मनुक्तमर्यादापद्यत इति ब्रुवतः पक्षहानेरुपपत्तिरनुक्तत्वात् अनित्यपक्ष सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति । अनैकान्तिकत्वाच्चार्थापत्तेः । उभयपक्षसमा चेयमर्थापत्तिः यदि नित्यसाधम्र्यादिस्पर्शत्वादाकाशवच्च नित्यः शब्दः, अर्थादापन्नमनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य इति । न चेयं विपर्ययमात्रादे25 कान्तेनार्थापत्तिः । न खलु वै घनस्य प्रागः पतनमित्यर्थादापद्यते द्रवाणामपां पतनाभाव इति । न्यायभाष्य. ५।१ । २२ ॥ ४ अस्य [ = उपलब्धिसमस्य ] उत्तरम् - कारणान्तरादपि तद्धर्मापत्तेरप्रतिषेधः । ५ । १ । २८ । प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते, न कार्यस्य कारणनियमः । यदि च कारणान्तरादप्युत्पद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते किमत्र प्रतिषिध्यते इति । " - न्यायभाष्य. ५ । १ । २८ ॥ ५मि खुल्° ब" दङ्° बूचस्° प° ब्स्तन्° प° लसू” दड्° पोडो VT. ॥ ६ ' ग्राहकभेदे ' इत्यपि पाठोऽत्र भवेत् । ऽज़िन्° ब्येद्° थ° दद्° पर्° VT. ॥ ७ ' ग्राहकभेदश्व' इत्यपि पाठोऽत्र स्यात् । ऽज़िन्° ब्येद् थ° दद्° प VT.॥ ८' इन्द्रियभेदकृते [ भेदे ] अभेदाशङ्काऽभावादिति दर्शयति' इत्यपि पाठोऽत्र स्यात् ॥
"f
80
6
Jain Education International
For Private & Personal Use Only
ܕܙ
www.jainelibrary.org