________________
सप्तमं परिशिष्टम् ।
૧૮૨
एतेनेति द्रव्ये प्रत्यक्षनिराकरणयुक्तया गुणादिष्विति आदिशब्दात् कर्मसु निराकृतं प्रत्युक्तम् । कथमित्याह - तदपि हीत्यादि । स्वाश्रयं गुणकर्मणोः स्वसामान्यं गुणत्वं कर्मत्वं च, स्वमाश्रयो यस्य तत् स्वाश्रयम्, तत्सम्बन्धद्वारेण ' उत्पद्यते ' इत्यनेन सह सम्बन्धः, विशेषणसम्बन्धद्वारेणोत्पद्यत इति यावत् । ततश्च ' यद् विशेषणापेक्षं तदप्रत्यक्षम् ' इत्यादि पूर्ववत् साधनं वाच्यम् । किञ्च तदपि चतुष्टयादिसन्नि 5 कर्षादेवोत्पद्यते इत्येतद्दर्शितम् | आदिशब्देन त्र्यसन्निकर्षाद् द्वयसन्निकर्षाच्च यथासम्भवम् । ततः को दोष इत्याह-यथा सर्वथेत्यादि । तत्र चतुष्टयसन्निकर्षादात्ममनइन्द्रियद्रव्यसन्निकर्षाद् रूपादिषु कर्मसु च । त्र्यसन्निकर्षाच्छब्दे, तत्र द्रव्येण सहेन्द्रियस्य सम्बन्धो नास्ति आकाशस्य श्रोत्रत्वात् तत्रैव च शब्दस्य समवेतत्वात् । द्वयसन्निकर्षादात्ममनः सन्निकर्षात् सुखादिषु । एवं " गुणकर्मस्वसन्निकृष्टेषु ज्ञाननिष्पत्ते - 10 र्द्रव्यं कारणं [ कारण] कारणं च " [वै० सू० ८ । ४ ] इति यदुक्तं तदध्यपक्षिप्तमिति । VT. D. ed. पृ० ५३ - ६१b Ped. पृ० ५९ b-६९a ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org