________________
अथ सवृत्तिके प्रमाणसमुच्चये
द्वितीये स्वार्थानुमानपरिच्छेदे वैशेषिकमत परीक्षा | निषिद्धे कार्यकारणे ॥ ३० ॥
न संयोगोऽगतौ सिद्धेर्द्धिनिष्ठत्वादभेदतः । न च केनचिदेशेन न संयोगी हुताशनः ॥ ३१ ॥ धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनम् । समवायादिषु तथा विरोधिष्वपि सम्भवात् ॥ ३२ ॥ लिङ्गस्यान्येन सामान्यं विशेषा अपि लिङ्गिनः । प्रकाशक प्रकाश्या न प्रसङ्गोऽन्यत्र सर्वथा ॥ ३३ ॥ अपेक्ष्य देशं कालं च कारणं नाप्रतीतितः । सम्बन्धस्याविशिष्टत्वाद् द्वैविध्यं नान्यसम्भवात् ॥ ३४ ॥ यद् विरोधि न तल्लिङ्गम सम्बन्धान्न लिङ्गधीः । लैङ्गिकत्वेन निर्देशाद् न सर्व लिङ्गमुच्यते ॥ ३५ ॥ सम्बन्धस्मरणं सिद्धं सूत्रे कार्यायलक्षितम् । शेषमव्यञ्जकं प्राप्तमन्यतस्तद्गतेर्वृथा || ३६ ॥ वैशेषिकाणामपि 'अस्येदं कार्य कारणं सम्बन्ध्ये कार्थसमवायि विरोधि चेति लैंङ्गिकम् ' [ वै० सू० ९ । १८ ] इति ।
तत्र तावत् पूर्व निषिद्धे कार्यकारणे । नैयायिकानुमाननिषेधे 'पूर्ववच्छेषवत्' इत्यत्र कारणकार्येऽनुमानस्य न हेतू इत्युक्तम् । सम्बन्धिद्विविधम्20 संयोगि समवायि च यथा धूमो विषाणं गत्रि । तत्र तावद् नैं संयोगोऽ
10
5
10
15
१ दृश्यतां पृ० १८४ टि० ४ ॥ २ अत्र सम्भवन्तः पाठभेदा वृत्तेष्टिप्पणेषु विलोकनीया: ॥ ३ पूर्ववत् कारणकार्यनिषेधात् K॥ ४ निषिद्धं कारणे कार्यम् PS 1 | निषिद्धं कारणात् कार्यम् PSV | PS मध्येऽयं कारिकांश एव नास्ति । PSV मध्ये तु ' कारणकार्यनिषेधात् ' इति गद्यात्मक एवानुवादः । अस्माभिस्तु वैशेषिकाभिमतानां कार्यकारणादिलिङ्गानां निराकरणस्यात्र विवक्षितत्वाद् 25 ' निषिद्धे कार्यकारणे ' इत्यनूदितं संस्कृते । एवं च नैयायिकानुमानपरीक्षास्थेन ' त्रिकालविषयं सर्वम् '
PS 2 इति कारिकांशेन सह योगात् ' त्रिकालविषयं सर्वं निषिद्धे कार्यकारणे ' इति कारिकार्धमप्यत्रोपपद्यते । एतत्परिशिष्टान्ते पूर्तिरप्यत्र विलोकनीया ॥ ५ 'निषेधावसरे 'पूर्ववच्छेषवत् ' इत्यत्र कारणेन कार्यमनुमानस्य न हेतुरित्युक्तम् V॥ ६ ' न संयोग्यगतौ सिद्धेः । संयोगानभिज्ञस्यापि ' इत्यपि पाठोऽत्र भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org