________________
सप्तमं परिशिष्टम् । गतौ सिद्धेः, संयोगानभिज्ञानेऽपि अविनामावमात्रस्मरणादग्निप्रतिपत्तेदृष्टवात् , ज्ञानकारणत्वेनैव च तस्य ज्ञापकत्वादगृहीतः सम्बन्धोऽनुमेयप्रकाश नस्य निमित्तं भवितुं नाईति, संयोगस्यानुमान कारणत्वे चाग्निरपि धूमज्ञानस्य कारणं स्याद् द्विनिष्ठत्वात् , संयोगस्य द्विनिष्ठत्वादुमयत्र प्रकाशकत्वं प्राप्नोति । दृष्टोऽयोगुडाङ्गाराद्यवस्थायां धूमविनाभूतोऽग्निरपि । ___ अपवादादेकत्र न लिङ्गम् । “असन् सन्दिग्धश्वानपदेशः" [वै० सू०३।१। ११] इत्यपवादोऽस्ति, ततोऽग्निः कारणं न भवति । न हि सोऽवश्यं धूमेन संयोगी, धूमस्त्ववश्यमग्निनेति चेत् , तदपि न, यस्माद् अभेदतः। संयोगो यभिन्नः, स यथै कत्र तथा द्वितीयेऽपीत्येकनाकारणं न युज्यते । न सम्बन्धोऽ. सकग्रहणेनानुमानस्य कारणं यतोऽत्र व्यभिचारित्वमव्यभिचारित्वं च विचार्यते। 10 यस्य त्वविनाभावः सम्बन्धस्तस्य द्वयोरवश्य मे कस्य कारणभावो युज्यते।
नं च केनचिदंशेन न संयोगी हुताशनः ।
धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनम् ॥ "संयोग सम्बन्धे सति वर्दीप्तिक्ष्ण्यादयो विशेषा अपि धूमेन प्रकाश्येरन् सर्वात्मना संयोगित्वात् । एवं धूमस्य यद् द्रव्यत्वादिमात्रग्रहणं तदपि तेनैवात्मना वहर्गमकं स्यात् । न हि द्रव्यत्वादिस्वभावेन असंयोगी। यथा च संयोगे दोषः 15 समवायादिषु तथा । तत्रापि गोविषाणयोः शाबले यत्वादिविशेष-द्रव्यत्वादिसामान्यानां वा समवायाभावो नास्ति । एवमेकार्थसमवायेऽपि वक्तव्यम् ।
१ संयोगस्य द्वियोगित्वादुभयस्यापि प्रकाशकत्वं प्रसज्यते। अयोगुडाङ्गाराग्न्यवस्थायामग्निरपि धूमेन विना दृष्टः V ॥ २ नन्वपवादादेकत्र न हेतुः। सन्दिग्धोऽनपदेशः......V॥ ३ असन् सन्दिग्धश्चेत्यनपदेशोऽयमस्ति ततोऽग्निः कारणं न भवति । K॥ ततोऽग्नेः कारणत्वं न भवति' इत्यपि A भवेत् पाठः ॥ ५ अभेदतः [ संयोगस्य ] इति वाक्यशेषः। संयोगो ह्यभिन्नः V॥ ६ नोभयम् , [ अपि तु] अवश्यमेकमेव कारणमित्युपपद्यते V॥ ७ कारिकेयं हेतुबिन्दुटो कायामचंटेन प्रमाणवार्तिकस्ववृत्तेष्टी कायां कर्णकगोमिना चोद्धृता। PS2 मध्ये पूर्वार्धमिदं नास्ति, PSVP मध्ये चास्य भोटभाषानुवादो गद्यवद् भासते ॥ ८ संयोगसम्बन्धदर्शने हि V॥ ९ ' एवं यो धूमस्य द्रव्यत्वादिमात्रं गृह्णाति सोऽपि तेनैवात्मना वहिं प्रतीयात् ' इत्यपि पाठोऽत्र भवेत् ॥ १० स द्रव्यादिभावेन नासंयोगी V॥ ११ — यथा च संयोगिनि दोषः समवाय्यादिषु तथा' इत्यपि पाठोऽत्र भवेत् ॥ १२ तत्रापि गवा विषाणी कपिलादिविशेषाश्च द्रव्यत्वादिसामान्येन गम्येरन् । एवमेकार्थसमवायिनि समयायानुपपत्तिवक्तव्या V॥ १३ एवमेकार्थसमवायिन्यपि (?)॥
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org