Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 105
________________ ९६ श्री सोमदेवप्रणीता एकं वाऽऽश्रित्य योगं कमणुमनुसरन् द्रव्यगं भावगं वा शुक्ले वाऽपि द्वितीये भवति जिनपतिर्घात्यघध्वंसनेन ॥ २६ ॥ सा सां लब्धिस्ततोऽस्मिन् वपुरातिशयवच्चातुरास्याभिरामं श्रीर्बाह्याभ्यंतरी चाद्भुतविभवभवा सर्वसत्त्वप्रमोदः । आनंदोऽन्यानपेक्षो दुरघविघटनाद्वेद्यमस्ति स्वकार्ये नो ते सार्वस्य तस्याः प्रभु न च नियमोऽघेष्विवाऽन्येषु यस्मात् ॥ यंत्राऽन्येऽप्यंगभाजो न हि सदसि बुभुक्षादिबाधास्तवामी तद्वाधा तत्र किं ते न च तदुदयव द्वेद्यमन्नादनाय । सामान्याऽऽहारहेतावपि मदभिमतं स्थापितांगेऽन्यथाऽस्ति देवे स्यादन्यथाऽतो रतिरखिल सुखं नास्ति भुक्तौ हि मुक्तिः २८ देवाधीते सुधीर्नाप्यनुपहतमतिर्कों वलास्त्वत्प दस्य योग्या आचारलाभे परममरपदं तेषु त्वद्रूपवसुं । १ क्षिपन् । २ ज्ञानदर्शनदानलाभभोगोपभोगवीर्य सम्यक्त्व चारित्रलक्षणः । ३ दानांतरायस्याशेषतः क्षयादनंतप्राणिगणानुग्रहकरं क्षायिकमभयदानं लाभांतरायस्याशेषनिरासात्परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजाऽसाधारणाः परमशुभाः सूक्ष्मानंता: प्रतिसमयं पुद्गलाः संबंधमुपयांति सः क्षायिको लाभः, कृत्स्नभोगांतरायस्योन्मूलनादाविर्भूतोऽतिशयानंत भोगः क्षायिकः कुसुमवृष्टयादयो विशेषाः प्रादुर्भवंति, निरवशेषस्योपभोगांतरायस्य प्रलयात्प्रादुर्भूतो अनंतोपभोगः क्षायिको यतः सिंहासनादिभूतयः, सप्तानां प्रकृतीनां क्षयात्क्षायिकं सम्यक्त्वं, चारित्रं द्वेधा मोहापोहात् क्षायिकं चारित्रं, ' ननु वेदनीयकर्मसद्भावात्परमसुखानुपपत्तिरिति वदंतं प्रत्याह, वेदनीयं आत्मीयबुभुक्षादिकार्यकरणसमर्थे न यतः मोहनीयांतरायप्राप्तेः सकाशात्समर्थो भवति, उदयप्राप्तं वेदनीयमन्नादाननिमित्तं न भवति; शुभसूक्ष्म देहस्थितिनिबंधनपरमाणु संबंध निमित्तं, किं भूतं ममाऽभिप्रेतं तस्मादनंतसुखसहितस्य केवलिनः कवलाऽऽहारकल्पनं न युक्तमिति ४ ना जनः संशयविपर्यासानध्यवसायरहितमतिः । ५ मोक्षस्य । ६ अर्हद्रूपयुक्तेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186