Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 151
________________ १४२ श्रीचंद्रकृता आकाशे संगर्जितमुदिरं सेन्द्रचापमासारसुसारं । नीरपूरसंप्लावितसूर संरोध्येति घनाघननिकरं ॥ ४४ ॥ अर्धचंद्रपुटसमसंराधं वारणपुरसंचित्यमबाधं । अमृतपूरवर्षणशशिसारं तुष्टयोगिवप्पीहकनिकरं ॥ ४५ ॥ कात्या स्नापितदशदिग्वलयं दर्शनबोधवीर्यशिवनिलयं । चिन्मयपिंडं वर्जितवलयं स्मर निजजीवं निर्मलकायं ॥४६॥ भीमण्डलनिर्जितरविकोटिं शुक्लध्यानाऽमृतसंपुष्टिं । तीर्थकरपरमोत्तमदेवं स्वात्मानं स्मर कृतसुरसेवं ॥४७॥ कुंभवातेन च तं संचिंत्यं ऊर्ध्वरेफसंयुक्तं नित्यं । सकलविंदुनानाहतरूपं स्थापय चित्ते छेदितपापं ॥४८॥ कमलमेकमारोपय चाग्रे आरोप्य स्मर तद्दलवर्गे। सर्वमंत्रबीजं हृदि नितरां कामक्रोधकषाविरतं ॥४९॥ शरदिंदोर्निर्गच्छंतं संतं मंत्रराजमाराधय सततं । तालुसरोरुहमागच्छंतं मेघाऽमृतधारावर्षतं ॥ ५० ॥ भूलतयोर्मध्ये चाऽऽरोप्यं उड्डाप्य घाणग्रे स्थाप्यं । पुनरुद्राम्य च हृदये धार्य नेत्रोत्पलविषये तत्कार्य ॥ ५१ ॥ सोमदेवसूररुपदेशः कार्यश्चित्ते शुभसंवेशः। लंवीजाक्षरमारोप्यांते विद्वद्भिर्मुक्तयै सांते ॥ ५२ ॥ एवमादिमंत्राणां स्मरणं कुरु जीव ! त्वं तेषां शरणं । यत् सामर्थ्याद्विहसि मरणं संसाराब्धेः कुरुषे तरणं ॥५३॥ अविचलचित्तं धारय बंधो! यास्यसि पारं संसृतिसिंधोः। त्वं च भविष्यसि केवलबोधो हंस त्वं प्राप्स्यसि शिवसिंधोः५४ १ भामंडलेन निर्जिता रविकोटिर्येन तं । २ देवैः सेवितम् । ३ मुंचसि । ४ स्थिरचितं। ५ समुद्रे यथा हंसस्तथा शिवाब्धौ त्वमपि हंसत्वं गमिष्यसि । Jain Education International al For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186