Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
वैराग्यमणिमाला |
नासामध्ये नगरचतुष्टयमस्ति नितांतं मूढ ! विचारय । तत्रोत्पत्तेर्वात चतुर्णां संचरणां च कलय संपूर्णा ॥ ३३ ॥ चक्षुर्विषये श्रवास ललाटे नाभौ तालुनि हृत्कजनिकटे । तत्रैकस्मिन् देशे चेतः सद्ध्यानी धरतीत्यतिशांतं ॥ ३४ ॥ योजनलक्षप्रमितं कमलं संचित्यं चांबूनदविमलं । कोशदेशमंदिर गिरिसहितं क्षीरसमुद्रसरोवरसहितं ॥ ३५ ॥ तस्योपरि सिंहासनमेकं तत्र स्थित्वा कुरु सद्ध्यानं । ... प्राप्स्यसि जीव ! शिवाऽमृतपानं ॥ ३६ ॥ तदनंतर माध्येयं रम्यं नाभीमध्ये कमलं सौम्यं । षोडशपत्रप्रमितं सारं स्वरमालान्वितपत्राऽऽधारं ॥ ३७ ॥ रेफकलाबिंदुभिरानद्धं तन्मध्ये संस्थाप्यं शुद्धं । शून्यं वर्ण सत्यंतव्यं तेजोमयमाशं संदिव्यं ॥ ३८ ॥ तस्मान्निर्यान्ती धूमाली पश्चादग्निकणानामाऽऽली । संचिया ज्वालाश्रेणी भव्यानां भवजलधेद्रणी ॥ ३९ ॥ ज्वालानां निकरेण ज्वाल्यं कर्मकजाष्टकपत्रं शल्यं । अवतानं हृदयस्थं चिंत्यं मोक्षं यास्यसि मानय सत्यं ॥ ४० ॥ कोणत्रितयसमन्वितकुडं वन्हिबीजवर्णैरविखंडम् । दुग्धय मध्ये क्षिप्त्वा पिंडं पश्यसि सिद्धिवधूवरतुंडं ॥ ४१ ॥ आकाशं संपूर्ण व्याप्य पृथ्वीवलयं सर्वं प्राप्य । वातं वातं हृदि संभारय परमानंदं चेतसि धारय ॥ ४२ ॥ तेन वातवलयेनोड्डाप्यं भस्मवृंदमनुदिनमास्थाप्यं । द्वादशांतमध्ये सद्ध्यानं कुरु सिद्धानां परमं ध्यानं ॥ ४३ ॥
१ श्रोत्रे । २ श्रेष्ठध्यानं धर्मशुक्लाविति । ३ द्रोणी काष्टाम्बुवाहिनी । ४ ज्वालय ।
५ स्थास्य ।
Jain Education International
१४१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186