Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 128
________________ पात्रकेसरिस्तोत्रम् | भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः स्वतो न रमणीयता च परिमूढता भूषणात् ॥ ३२ ॥ कमण्डल्वित्यादि - कमंडलुः कुंडिका मृगाजिनं मृगचर्माक्षवलयमक्षसूत्रं तान्यादिर्येषां चतुर्वदनादीनां तैर्ब्रह्मणोभ्यूह्यतेऽनुमीयते । किं तदित्याह शुचि चेत्यादिना - शुचित्वस्य विरहोऽभाव आदिर्यस्य स चासौ दोषश्च तेन कलुषत्वं मलिनत्वं तथा न स्वतः शुचिर्ब्रह्मा कमंडलुधारणात्, न कृतार्थो मृगाजिनधारणात्, न सर्वज्ञोऽक्षसूत्रग्रहणात् तदन्यतपस्विवत्, तथा अवीतरागः कामोद्रेकवशाच्चतुर्वदनकारणात् तथा विष्णुहरयोर्भयं विधूणताच निर्दयता च दोषः । कुतः, भूषणाच्छरीरालंकरणात् इति ॥ ३२ ॥ अन्यदपि मोहविजृम्भितं ब्रह्मणो दर्शयन्नाह; - स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं सुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् । कृतात्मकरणीयकस्य जगतां कृतिर्निष्फला स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥ ३३ ॥ स्वयमित्यादि — स्वयमात्मना सृजत्युत्पादयति चेद्यदि । काः प्रजाः । तर्हि किमिति केन कारणेन दैत्यविध्वंसनं दैत्यानामसुराणां विध्वंसनं मारणं सुदुष्टजननिग्रहार्थमिति चेत्, एवं तर्हि तेषां वरमकृतकृत्यस्तस्य जगतां लोकानां कृति: करणं निष्फला निष्प्रयोजना, अथ न प्रयोजनमुद्दिश्यासौ जगतां स्रष्टा किं नु तादृशस्तस्य स्वभाव इति चेन्मृषा मिथ्यैव तत् । कुत इत्याह स हीत्यादिना - हि यस्मात् स स्रष्टा सुष्ठु दुष्टो रागादिदोषाक्रान्त एवाप्यते गम्यते तदभावे जगतां सर्जनपालनविध्वंसनानुपपत्तेरिति ॥ ३३ ॥ पुनरपि दोषान्तर सद्भावादेषामाप्तता नास्तीत्याह; - प्रसन्नकुपितात्मनां नियमतो भवेद्दः खिता तथैव परिमोहिता भयमुपतिश्चामयैः । Jain Education International ११९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186