________________
पात्रकेसरिस्तोत्रम् |
भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः
स्वतो न रमणीयता च परिमूढता भूषणात् ॥ ३२ ॥ कमण्डल्वित्यादि - कमंडलुः कुंडिका मृगाजिनं मृगचर्माक्षवलयमक्षसूत्रं तान्यादिर्येषां चतुर्वदनादीनां तैर्ब्रह्मणोभ्यूह्यतेऽनुमीयते । किं तदित्याह शुचि चेत्यादिना - शुचित्वस्य विरहोऽभाव आदिर्यस्य स चासौ दोषश्च तेन कलुषत्वं मलिनत्वं तथा न स्वतः शुचिर्ब्रह्मा कमंडलुधारणात्, न कृतार्थो मृगाजिनधारणात्, न सर्वज्ञोऽक्षसूत्रग्रहणात् तदन्यतपस्विवत्, तथा अवीतरागः कामोद्रेकवशाच्चतुर्वदनकारणात् तथा विष्णुहरयोर्भयं विधूणताच निर्दयता च दोषः । कुतः, भूषणाच्छरीरालंकरणात् इति ॥ ३२ ॥ अन्यदपि मोहविजृम्भितं ब्रह्मणो दर्शयन्नाह; - स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं सुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् । कृतात्मकरणीयकस्य जगतां कृतिर्निष्फला
स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥ ३३ ॥ स्वयमित्यादि — स्वयमात्मना सृजत्युत्पादयति चेद्यदि । काः प्रजाः । तर्हि किमिति केन कारणेन दैत्यविध्वंसनं दैत्यानामसुराणां विध्वंसनं मारणं सुदुष्टजननिग्रहार्थमिति चेत्, एवं तर्हि तेषां वरमकृतकृत्यस्तस्य जगतां लोकानां कृति: करणं निष्फला निष्प्रयोजना, अथ न प्रयोजनमुद्दिश्यासौ जगतां स्रष्टा किं नु तादृशस्तस्य स्वभाव इति चेन्मृषा मिथ्यैव तत् । कुत इत्याह स हीत्यादिना - हि यस्मात् स स्रष्टा सुष्ठु दुष्टो रागादिदोषाक्रान्त एवाप्यते गम्यते तदभावे जगतां सर्जनपालनविध्वंसनानुपपत्तेरिति ॥ ३३ ॥
पुनरपि दोषान्तर सद्भावादेषामाप्तता नास्तीत्याह; - प्रसन्नकुपितात्मनां नियमतो भवेद्दः खिता तथैव परिमोहिता भयमुपतिश्चामयैः ।
Jain Education International
११९
For Private & Personal Use Only
www.jainelibrary.org