________________
१२०
श्रीविद्यानंदिकृतं
तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यते
जिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥ ३४ ॥ प्रसन्नेत्यादि-प्रसन्नस्तुष्टः कुपितः क्रुद्धस्तदात्मनां तद्रूपाणां नियमतोऽवश्यंभावेन भवेद्दुःखिता दुःखस्वभावता कोपप्रसादवाकृतानां सुखित्वानुपपत्तेः, तथैव परिमोहिता भयं च तत्परवशीकृतानां निर्मोहत्वस्य निर्भयत्वस्थ चास्मदादिवदसंभवात्, उपद्रुतिश्चोपद्रवश्चामयैर्व्याधिभिर्न केवलमेतैरेवोपद्रुतिरपि तु तृषाऽपि च पिपासया च बुभुक्षया च । एवंविधैरपि तैः संसारोच्छित्तिः करिष्यत इत्याह न चेत्यादिना-न चैवंविधदोषदुष्टैस्तैः संसृतिः स्वस्यान्येषां वा छिद्यतेऽतो हे जिनेन्द्र ! भवतोऽपरेषु ब्रह्मादिषु कथमाप्तताऽवंचकता युज्यते घटत इति ॥ ३४ ॥ अत आप्ताभासेषु सेवा नरकपातहेतुरेवेत्यावेदयन्नाह;कथं स्वयमुपद्रुताः परसुखोदये कारणं
स्वयं रिपुभयार्दिताश्च शरणं कथं बिभ्यताम् । गतानुगतिकैरहो त्वदपरत्र भक्तैर्जनै
रनायतनसेवनं निरयहेतुरंगीकृतम् ॥ ३५ ॥ कथमित्यादि-कथं न कथमपि स्वयमुपद्रुता ये सुखादिबाधितास्तेषां परेषां सेवकानां सुखोदये कारणं, अत्राऽर्थेऽर्थान्तरन्यासमाह स्वयमित्यादिना- स्वयं रिपुभयेनार्दिताः कथं शरणं त्रातारः । केषां, बिभ्यतां प्रचंडशत्रुभ्यो भयमुपागतानां अतो गतानुगतिकैरपरीक्षकैर्जनैस्त्वद्भवतोऽपरत्रेश्वरादौ भक्तैः अहो आश्चर्यमङ्गीकृतं । किं तत्, अनायतनसेवनं मिथ्यादर्शनज्ञानचारित्राणि तद्वन्तश्च पुरुषा इति षड्विधमनायतनं तस्य सेवनमाराधनं । किंविशिष्टं, निरयहेतुरिति ॥ ३५ ॥ इदानी हिंसादिपवृत्तानां तेषां पापबन्ध एवानुषज्यत इति दर्शयन्नाह;सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां प्रदुष्टचरितोदितेषु परिहृष्यतां देहिनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org