SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । १२१ अवश्यमनुषज्यते दुरितबन्धनं तत्त्वतः शुभेऽपि परिनिश्चितस्त्रिविधबंधहेतुर्भवेत् ॥ ३६॥ सदेति- सदा सर्वकालं हननं हिंसा, घातनं हिंसायां प्रेरकत्वं, आदिशब्दात्तत्साधनायुधादिसमर्पणनिष्पादनादिग्रहणं, अनुमतिरेवं क्रियतामित्यभ्युपगमः, तासु प्रवृत्तात्मनां देहिनामवश्यमनुषज्यते प्रसज्यते । किं, दुरितबन्धनं पापबन्धः तत्त्वतः परमार्थतः । पुनरपि कथम्भूतानामित्याह प्रदुष्टेत्यादिना-प्रकर्षेण दुष्टं च तच्चरित्रं च हिंसायाचरणं तस्योदितेषु प्रतिपादनेषु प्रहृष्यतां तुष्यतां न केवलमशुभे बंधे त्रिविधो हेतुः किन्तु शुभेऽपि परिनिश्चितः । कोऽसौ, त्रिविधबंधहेतुः त्रिविधश्चासौ कृतकारितानुमतप्रकारो बन्धहेतुश्च भवेदिति ।। ३६ ॥ नन्वेवं जिनेन्द्रस्यापि दानक्रियां हिंसालेशहेतुभूतामुपदिशतः कथं पापबन्धो न स्यादिति शङ्का निराकुर्वन्नाह;-- विमोक्षसुखचैत्यदानपरिपूजनाद्यात्मिकाः क्रिया बहुविधासुभृन्मरणपीडना हेतवः । त्वया ज्वलितकेवलेन न हि देशिताः किं नु ता स्त्वयि प्रसृतभक्तिभिः स्वयमनुष्ठिताः श्रावकैः ॥ ३७ ॥ विमोक्षेत्यादि-विमोक्षे सुखं विमोक्षसुखं तस्मै चैत्यदानपरिपूजनादीनि तान्यात्मा यासां तास्तदात्मिकाः क्रियाः । कथंभूताः, बहुविधानां स्थावरवसरूपाणामसुभृतां मरणं च पीडनं च तयोर्हेतवस्ता इत्थंभूताः क्रियास्त्वया न हि देशिताः प्रतिपादिताः । कथंभूतेन, ज्वलितकेवलेन ज्वलितं दीप्तं सकलार्थप्रकाशकं केवलं केवलज्ञानं यस्य तेन किन्तु स्वयमनुष्ठिताः श्रावकैः। किंविशिष्टैः, त्वयि प्रसृतभक्तिभिः प्रसृता वृत्ता भक्तिर्येषां तैः, तोह क्षेत्रे दानक्रियाया आद्यः स्वयमनुष्ठाता श्रेयान् चैत्यचैत्यालयादिक्रियायास्तु भरतचक्रवर्तीति, अथवा तीर्थकरेभ्योऽन्येषामेव जिनेन्द्राणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy