________________
१२२
श्रीविद्यानंदिकृतं गणधराणां तदुपदेशिताभावो न तु तीर्थकराणां तेषां तीर्थकरत्वनामपुण्यातिशयवशात्तत्संभवात् गणधरदेवैर्व्याख्याता विशेषादुपदिष्टा इति ॥ ३७ ॥ कथञ्चिन्नित्यागमाद्दा भव्यैस्तक्रिया ज्ञाता इति दर्शयन्नाह,-- स्वया त्वदुपदेशकारिपुरुषेण वा केनचित्
कथंचिदुपदिश्यते स्म जिन ! चैत्यदानक्रिया। अनाशकविधिश्च केशपरिढुंचनं चाऽथवा
श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥ ३८॥ त्वयेति--त्वया तीर्थकृता त्वदुपदेशकारिपुरुषेण वा तवोपदेशं करोति प्रवर्त्तयतीत्येवंशीलस्त्वदुपदेशकारी स चासौ पुरुषश्च तेन केनचिद्गणधरदेवेन कथंचित्पर्यायरूपेणोपदिश्यते स्म । का, जिनचैत्यदानक्रिया न केवलं सा किं त्वनाशकविधिश्च न विद्यत आशो भोजनं यत्र सोऽनाशक उपवासः संन्यासो वा तस्य विधिरनुष्ठानं तथा केशपरिढुंचनं चाऽथवा श्रुतादागमात् एतत्सर्वं भव्यैरधिगतं । कथंभूतादनिधनात्मकात् द्रव्यरूपतया विनाशशून्य. त्वात्। पुनरपि कथंभूतात्, प्रमाणान्तरात् प्रत्यक्षप्रमाणादन्यस्मादिति ॥३८॥
नन्धेवं भगवतस्तदुपदिशतः प्राणिपीडाहेतुत्वसंभवात् कथं नापुण्यबन्धः स्थादित्याशङ्कां निराकुर्वन्नाह;--
न चासुपरिपीडनं नियमतोऽशुभायष्यते
त्वया न च शुभाय वा न हि च सर्वथा सत्यवाक् । न चाऽपि दमदानयोः कुशलहेतुतैकान्ततो
विचित्रनयभंगजालगहनं त्वदीयं मतम् ॥ ३९॥ न चेत्यादि--न च नैवासूनां परिपीडनं नियमतोवश्यंभावनाशमाय त्वयेष्यते न च शुभाय वा न हि च हि स्फुटं न च सत्यवाक् शुभाशुभाय वा सर्वथेष्यते प्रमादकृतानां तेषामशुभहेतुत्वात् । तदुक्तं,
मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स णस्थि बंधो हिंसामित्तेण समिदस्स ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org