SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पात्रकेसरिस्तोत्रम् । १२३ तर्हि दमदानयोः पुण्यहेतुतैवास्त्वित्याह न चेत्यादिना-न च दमदानयोः कुशलहेतुता एकान्ततोऽवश्यंभावेन । अतो विचित्रनयजालगहनं विचित्राश्च ते नयाश्च तेषां भंगा विकल्पास्तेषां जालं संघातस्तेन गहनमगाधं त्वदीयं तावकं मतं शासनमिति ॥ ३९ ॥ ननु परैरपि भगवताऽपि सुखजीविकार्थ शासनं प्रणीतमित्याशङ्का निराकुर्वन्नाह; त्वयाऽपि सुखजीवनार्थमिह शासनं चेत्कृतं कथं सकलसंग्रहत्यजनशासिता युज्यते । तथा निरशनार्द्धभुक्तिरसवर्जनाद्युक्तिभि जितेन्द्रियतया त्वमेव जिन ! इत्यभिख्यां गतः ॥४०॥ त्वयाऽपीति-त्वयाऽपि न केवलं ब्रह्मादिभिः सुखजीवनार्थमिह जगति शासनं मतं कृतं चेद्यदि तदा कथं युज्यते घटते। काऽसौ, सकलसंग्रहत्यजनशासिता सफलश्चासौ संग्रहश्च परिग्रहस्तस्य त्यजनं त्यागस्तस्थ शासिता प्रतिपादकत्वं तथा त्वमेव गतः प्राप्तः । कामभिख्यां संज्ञां । किंविशिष्ट 'जिन' इत्येवंविधा ' यो हि कर्मारातीञ्जयति स जिन' इत्युच्यते । कया तां त्वं गत इति प्रश्ने जितेन्द्रियतयेति । काभिः कृत्वा जितेन्द्रियता भगवतोऽवगतेत्याह;-निरशनेत्यादिना-निरशनमुपवासः अर्द्धभुक्तिरवमौदर्य रसवर्जनं रसपरित्यागस्तान्यादिर्येषां दुर्धरकायक्लेशादीनां तेषामुक्तिभिः प्रतिपादनैः, न हि कश्चित्सुखेन जीविकामिच्छन् जितेन्द्रियः, सकलं परियहं त्यजति दुर्धरोपवासादितपोऽनुतिष्ठति परस्मै प्रतिपादयति चेति प्रतीतमिति ॥ ४० ॥ ननु भवन्मतानुसारिभिः कैश्चिद्वस्रादिपरिग्रहस्वीकारात्कथं सकलसंग्रहस्यजनशासिता भवतो न विरुद्धेत्यत्राह; जिनेश्वर ! न ते मतं पटकवस्त्रपात्रग्रहो विमृश्य सुखकारणं स्वयमशक्तकैः कल्पितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy