SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीविद्यानंदिकृतं अथायमपि सत्पथस्तव भवेद्वथा नग्नता न हस्तसुलभे फले सति तरुः समारुह्यते ॥ ४१ ॥ जिनेश्वर इति-हे जिनेश्वर ! जिनेन्द्र ! न ते मतमभिप्रेतं । किं तत्, पटकवस्त्रपात्रग्रहः कुत्सितः पटः पटक ऊर्णामयः वस्त्रं कर्पटः पात्रं भिक्षाभाजनं तेषां ग्रहो ग्रहणं मतं हिंसाहेतुत्वान्न । पटादेः प्रक्षालने हि अनेकाकायिकादिजन्तुवधः स्यात्, अप्रक्षालने चानेकयूकालिक्षादिसमुत्थामात्तदूधः स्यात् । कथं तद्गृहीतमित्याह विमृश्येत्यादिना-विमृश्य पर्यालोच्य सुखकारणं स्वयं स्वेतपटैः कल्पितं न तु भगवतोपदिष्टं । कथंभूतैस्तैरशक्तकैः शीतोष्णादिपरीषहसहनेऽसमर्थैः, अथ निर्ग्रन्थसंयमोऽपि मुक्तिहेतुरित्यत्राहाथेत्यादिना-अथ पुनरयमपि सग्रन्थसंयमोऽपि सत्पथः सन्मार्गो मुक्तिहेतुस्तर्हि तव भवेद्वथा । काऽसौ, नग्नता सकलसंगपरित्यागः । कुतः, यतो न हस्तसुलभे भूमिस्थैरपि हस्तेन सुलभे सुखेन प्राप्ये फले सति तरुर्वृक्षः प्रेक्षापूर्वकारिभिः समारुह्यते ॥ ४१ ॥ सग्रन्थसंयमेऽपरमपि दूषणमुपदर्शयन्नाह;-- परिग्रहवतां सतां भयमवश्यमापद्यते प्रकोपपरिहिंसने च परुषानृतव्याहृती। ममत्वमथ चोरतो स्वमनसश्च विभ्रान्तता कुतो हि कलुषात्मनां परमशुक्लसद्ध्यानता ॥ ४२ ॥ परिग्रहवतामिति- परिग्रहवतां सतां विद्यमानानां चौरादिभ्यो भयमवश्यमापद्यते तथा तदपहर्तृविषये प्रकोपपरिहिंसने चापयेते; तथा परुषानृतव्याहृती परुषं निष्ठुरं अनृतमसत्यं ते च ते व्याहृती च वचने आपद्यते तथा ममत्वं मूर्छा, अथ तथा चोरतो विशिष्टपदार्थस्यापहरणाभिप्रायः स्वमनसश्च विभ्रान्तता स्वस्य मनश्चित्तं तस्य विभ्रान्तता उपार्जनरक्षादिना संक्षोभ एवं कलुषात्मनां कुतः हि स्फुटं परमशुक्लसध्यानता उत्कृष्टश्रेष्ठशुक्लध्यानत्वमिति ॥ ४२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy