________________
श्रीविद्यानंदिकृतं
गणैः स्वसदृशैर्भृशं रतिमुपैति रात्रिंदिवं
पिबत्यपि च यः सुरां स कथमाप्तताभाजनम् ॥ ३० ॥ मुखेनेति--समत्ति भक्षयति । कानि शवपूतिमज्जरुधिरांत्रमांसानि शवश्च मृतकं पूतिश्च पूयः मज्जा च रुधिरं चांत्राणि च मांसानि च तानि । केषामखिलप्राणिनां । केन कृत्वा, मुखेन किलेत्यरुचौ । कथंभूतेन, पृथुना दक्षिणेन । पुनरपि कथंभूतेन पृथुना महता । अन्यच्च किं करोति, रतिमुपैति भृशमत्यर्थे । कैः सह, गणैः गिरिटिप्रभृतिभिः । किं विशिष्टैः, स्वसदृशैः शवादिलक्षणादिपरतया रात्रिं दिवं तथा पिवत्यपि च यः सुरां सुरामपि यः पिवति सः कथमाप्तताभाजनमिति ॥ ३० ॥ पराभ्युपगतानीश्वर गुणान्निराकुर्वन्नाह ;अनादिनिधनात्मकं सकलतत्त्वसंबोधनं समस्तजगदाधिपत्यमथ तस्य संतृप्तता । तथा विगतदोषता च किल विद्यते यन्मृषा
सुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥ ३१ ॥ अनादीत्यादि -- सकलं च तत्तत्त्वं च तस्य संबोधनं सर्वज्ञत्वं । कथंभूतमनादिनिधनात्मक मादिश्च प्रथमोत्पत्तिर्निधनं च विनाशो न वियेते ते यस्य सः तथाविधात्मस्वभावो यस्य, अथ तथा समस्तजगदाधिपत्यं समस्तं च तज्जगच्च तस्याधिपत्यं प्रभुत्वं तथेश्वरस्य संतृप्तता सम्यक् तृप्तिस्तथा विगतदोषता च विद्यते; किलेत्यरुचौ, तदेतन्मृषा मिथ्या । कुतः, सुयुक्तिविरहात् शोभनाया युक्तेर्हेतोरभावात् । मा भूयुक्तिरागमस्तु भविष्यतीत्यत्राऽऽह न चेत्यादिना - न च नैवात्रार्थेऽस्ति परिशुद्धमबाधितं तवं स्वरूपं यस्य स चासावागम इति ॥ ३१ ॥
अधुना हरिहरब्रह्मणामाप्ताभासतां दर्शयन्नाह ;कमण्डलुमृगाजिनाक्षवलयादिभिर्ब्रह्मणः शुचित्वविरहादिदोषकलुषत्वमभ्यूह्यते ।
११८
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org