________________
पात्रकेसरिस्तोत्रम् ।
११७ __ परित्यादि-परैरीश्वरादिभिः । किंविशिष्टैः, कृपणदेवकैः कृपणा दीना हीनस्थानेष्वपि स्यादिषु सुखताऽभिलाषेण प्रवृत्तिमत्त्वात् ते च ते देवकाश्च कुत्सितदेवास्तैः । पुनरपि किंविशिष्टरसत्सुखैरसदविद्यमानं निरतिशयं सुखं येषां तैः । किं क्रियते, स्वयं प्रार्थ्यते । किं तत्सुखं । कथंभूतं, युवतिसेवनादिपरसन्निधिप्रत्ययं युवतिसेवनादि च तत्परं चानात्मस्वरूपं तस्य सन्निधि कट्यं प्रत्ययः कारणं यस्य तत्तथोक्तं अतस्तेषामाप्ताभासता । त्वया तु परमात्मना न परतो युवतिसेवनादेः प्रार्थ्यते । कुतो? यतो यस्मात्ते सुखं व्यपेतपरिमाणकं विशेषेणापेतं परिमाणमियत्तापरिमाणो वा हीनाधिकव्यावाधादिपरिणतिर्यस्य, निरुपममुपमातीतं ध्रुवमनपायं स्वात्मजमात्माधीनमिति ॥ २८ ॥ अधुनेश्वरस्याप्ताभासस्योन्मत्तस्येव चेष्टितं दर्शयन्नाह;पिशाचपरिवारितः पितृवने नरीनृत्यते
क्षरगुधिरभीषणद्विरदकृत्तिहेलापटः । हरो हसति चायतं कहकहाहहासोल्बणं
कथं परमदेवतेति परिपूज्यते पण्डितैः ॥ २९ ॥ पिशाचेत्यादि-हर ईश्वरो नरीनृत्यते भृशं नृत्यति । कथंभूतः, पिशाचपरिवारितः। पुनरपि कथंभूत इत्याह क्षरदित्यादिना-क्षरञ्च तद्रुधिरं च तेन भीषणा भयानका सा चासौ द्विरदस्य कृत्तिश्चर्म सैव हेलापटः क्रीडापटो यस्य।क, पितृवने न केवलं तत्रासौ नरीनृत्यते किन्तु हसति च । कथमायतं दीर्घ । पुनरपि कथंभूतं, कहकहाट्टहासोल्बणं कहकहं लक्षणश्चासावट्टहासश्च तेनोल्बणमुत्कटमेवंविधो हरः कथं परमदेवता इत्येवं परिपूज्यते । कैः, पण्डितैरिति ॥ २९॥ अन्यदप्यस्य दुष्टचेष्टितं दर्शयन्नाह;मुखेन किल दक्षिणेन पृथुनाऽखिलप्राणिनां
समत्ति शवपूतिमज्जरुधिरांत्रमांसानि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org