________________
११६
श्रीविद्यानंदिकृतं
हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूः
कथं तव मनुष्यमात्रसदृशत्वमाशङ्कयते ॥ २६ ॥ स्वमातुरित्यादि-इह क्षेत्रे स्वमातुर्गर्भात्प्रभवो यद्यपीष्यते भगवतस्तथापि मलैरनुपसंप्लुतो मलैर्मातुरुदरगतैः कश्मलैरनुपसंप्लुतोऽसंस्पृष्टः । किमिव, वरसरोजपत्रेऽम्बुवत् । तथा हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूः, एवम्विधमन्यजनानां तथाऽनिश्चयादित्यपिशब्दार्थः । अतः कथं मनुष्यमात्रसदृशत्वमाशङ्कायते भगवत इति ॥ २६ ॥ एवं जन्माभावमभिधाय मरणाभावमभिधातुमाह;न मृत्युरपि विद्यते प्रकृतिमानुषस्येव ते
मृतस्य परिनिर्वृतिर्न मरणं पुनर्जन्मवत् । जरा च न हि यद्वपुर्विमलकेवलोत्पत्तितः
प्रभृत्यरुजमेकरूपमवतिष्ठते प्राङ् मृतेः ॥ २७ ॥ न मृत्युरित्यादि- केवलं जन्मैव न विद्यते किन्तु मृत्युरपि न विद्यते । कस्येव, प्रकृतिमानुषस्येव । नन्वयोग्यवस्थानन्तरं भगवतो मरणमस्तीति चेत्, मृतस्यायोग्यवस्थाश्च्युतस्य निर्वृतिर्भवति यत्पुनर्जन्मवन्मरणं पृथग्जने दृष्टं तद्भगवति नेति निषिध्यते न केवलं तथाविधं मरणं न विद्यते, अपि तु जरा च न हि विद्यते। कुतः यद्यस्मादपु विमलकेवलोत्पत्तितः प्रभृति अरुज नीरोगमेकरूपं तरुणवृद्धरूपविसदृशपरिणामरहितमवतिष्ठते । आ कुतः, प्राङ् मृतेरिति ॥ २७ ॥ परेषामाप्ताभासानां भगवतश्च सुखं प्रति महदन्तरं दर्शयन्नाह;परैः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यते
सुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् । त्वया तु परमात्मना न परतो यतस्ते सुखं
व्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजं ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org