________________
पात्रकेसरिस्तोत्रम् ।
११५
विहाय न किंचिद्वनं नगरं वा वास्तवं सौगतैरिष्टं । तथा क्षणिकक्षणान्विहाय न सन्ततिरपि भवतु तदभावः को दोष इत्याह वृथैवेत्यादिनावृथैव निष्फलैव । केत्याह कृषीत्यादिना-कृषिश्च दानञ्च शीलं च मुनिवन्दना च ता आदयो यासां ताश्च ताः क्रियाश्च । अथैतद्दोषभयात्कथंचिदविनश्वरी सन्ततिरिष्यते तथा सर्व क्षणिकमिति भवेत्प्रतिज्ञाक्षतिः॥२४॥
अधुना भुक्ते केवली चिरजीविमनुष्यत्वाद्गोगभूमिजवदित्यत्र हेतोरसिद्वतामुद्भावयन्नाह;अनन्यपुरुषोत्तमो मनुजतामतीतोऽपि स
मनुष्य इति शस्यसे त्वमधुना नरैर्बालिशैः। क्व ते मनुजगर्भिता क्व च विरागसर्वज्ञता
न जन्ममरणात्मता हि तव विद्यते तत्त्वतः ॥ २५ ॥ अनन्येति-हे जिन ! त्वमनन्यपुरुषोत्तमः न विद्यन्तेऽन्ये पुरुषोत्तमा यस्मात् । पुनरपि कथम्भूतः, मनुजतामतीतोऽपि मनुष्यप्रकृतिरूपतामतीतोऽपि सन्नित्थंभूतोऽपि भगवन् ! मनुष्य इति शस्यस उच्यसेऽधुना नरैः । किंविशिष्टैर्बालिशैः । यदि च मनुष्यमात्रतुल्यता भगवत इष्यते तदा वीतरागताविरोध इत्याह केत्यादिना-क ते मनुजगर्भिता क च विरागसर्वज्ञता न खलु मनुजानां मनुष्यमात्राणां गर्भ इव गर्भो येषां तेषां वीतरागता सर्वज्ञता च दृष्टा, यदि मनुष्यमात्रतया तुल्यता भगवतः स्यात्तदा जन्मादिप्रसंगो, न च सोऽस्तीत्याह न जन्मेत्यादिना- जन्ममरणात्मता हि यस्मात्तव न विद्यते तत्त्वतः , जन्म हि कर्मशेषाद्भवति तस्य च जन्मन्येव तत्क्षयात्कथं तत्स्यात् तदभावान्मरणाभाव इति ॥ २५ ॥ ननु भगवतो जन्माभावे कथं स्वमातृग दुत्पाद इत्याशङ्कयाह;स्वमातुरिह यद्यपि प्रभव इष्यते गर्भतो
मलैरनुपसंप्लुतो वरसरोजपत्रेऽम्बुवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org