________________
श्रीविद्यानंदिकृतं
प्रतिक्षणविभंगुरं सकलसंस्कृतं चेष्यते
ननु स्वमतलोकलिंगपरिनिश्चयैाहितम् ॥ २३ ॥ पृथग्जनेति-पृथग्जना रागादिमन्तस्तेषां मनोऽनुकूलं मनोज्ञमपरैः सौगतैः कृतं शासनं दर्शनं । कीदृशं तदित्याह सुखेनेत्यादिना- सुखेन कायक्लेशं विना सुखं पारलौकिकमालादरूपमाप्यते प्राप्यते न तपसा। किंविशिष्टैस्तैः कृतमवश्येन्द्रियैस्तथेष्यते। किं तत्सकलसंस्कृतं । कथंभूतं, प्रतिक्षणविभंगुरं क्षणं क्षणं प्रति विभंगुरं विनश्वरं । अत्र नन्वित्यादिना स्वमतादिविरोधं दर्शयति- स्वमतञ्च लोकश्च लिङ्गं च तेषां परिनिश्चयास्तैाहतं विरुद्धं तत्र स्वमतपरिनिश्चयेन विरोधस्तावत् न तपसा सुखं प्राप्यत इति वदतः शिरोमुण्डनब्रह्मचर्यादिवतधारणेनानर्थक्यप्रसङ्गात्, तथा “ यडूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ” इति लोकप्रतीत्या च विरोधः, प्रत्यक्षे विभंगुरमित्यस्य च सर्व कथञ्चिन्नित्यं प्रत्यभिज्ञायमानत्वादित्यादिलिङ्गपरिनिश्चयेन व्याघातः॥२३॥ सन्ताने प्रत्यभिज्ञानादेः प्रवृत्तेर्न तद्व्याघात इत्याशङ्कां निराकुर्वन्नाह;न सन्ततिरनश्वरी न हि च नश्वरी नो द्विधा
वनादिवदभाव एव यत इष्यते तत्त्वतः । वृथैव कृषिदानशीलमुनिवन्दनादिक्रियाः
कथञ्चिदविनश्वरी यदि भवेत्प्रतिज्ञाक्षतिः ॥२४॥ न सन्ततिरित्यादिना- सा हि सन्ततिरक्षणिका क्षणिका उभयरूपा वा स्वादिति पक्षत्रयमप्ययुक्तमिति नेत्यादिना दर्शयति-न सन्ततिः सन्तानोऽनश्वरी नित्या न हि च नश्वरी नो द्विधा कुत इत्थं सा न सम्भवति वनादिवदभाव एव यत इष्यते तत्त्वतः । यदि हि सन्ततिर्वस्तुभूता स्यात्तदा नित्याऽनित्या चोभयरूपा वा स्यात्, न चाऽसौ वस्तुभूता सौगतेरिष्यते यतस्तत्त्वतः परमार्थतोऽभाव एव सन्ततेरिष्यते किंवत् वनादिवत्; यथैव हि वनं नगरमित्यादिव्यवहारः, न हि वृक्षविशेषान् गृहप्रासादविशेषांश्च .
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org